Enter your Email Address to subscribe to our newsletters

नागपुरम्, १३ जूनमासः (हि.स.)। केन्द्रीय-मार्ग-परिवहन-तथा-राजमार्गमन्त्रिणा नितिन-गडकरी-महोदयेन नागपुर-नगरं तथा नागपुर-जनपदं ‘हरित-नगरम्’ इति रूपेण विकसितुं २५ लक्ष-वृक्षारोपणस्य महत्त्वाकांक्षी-संकल्पः घोषितः अस्ति। सः अवदत् यत् ‘एकः वृक्षः मातुः नाम्ना’ इति अभियानेन विद्यालयाः, विश्वविद्यालयाः, स्वयंसेवी-संस्थाः, राजनीतिक-दलानि तथा विविध-सामाजिक-समूहाः च सहभूत्य वृहत्-स्तरे वृक्षारोपण-तथा-संरक्षण-अभियानं सञ्चालयिष्यन्ति।
केन्द्र-सर्वकारस्य द्वादशवर्षीय-कार्यसिद्धेः उपलक्ष्ये शनिवासरे अत्र एकस्मिन् होटल-इत्यत्र आयोजिते पत्रकार-समागमे गडकरी-महोदयेन एषा सूचना दत्ता। सः अवदत् यत् नागपुर-स्थितेन रिमोट-सेन्सिंग-केन्द्रेण राजस्व-तथा-वन-विभागस्य सहयोगेन राज्यस्य सर्वेषां जनपदानां तालुकानां च मानचित्रणं क्रियते। येषु क्षेत्रेषु वृहत्-स्तरे वृक्षारोपणं जातम्, तेषां विवरणं संगृह्य तेषां सम्मानः अपि क्रियिष्यते। अस्मिन् अवसरे महाराष्ट्र-राज्यस्य राजस्वमन्त्री तथा नागपुर-जनपदस्य पालकमन्त्री चन्द्रशेखर-बावनकुले-महोदयः अन्ये च स्थानीय-प्रतिनिधयः उपस्थिताः आसन्।
केन्द्र-सर्वकारस्य विविध-जनकल्याणकारी-योजनानां समीक्षां कुर्वन् सः अवदत् यत् गत-१२-वर्षेषु प्रधानमन्त्री जनधन-योजनायाः अन्तर्गतं ५८ कोटि-तः अधिका: धनागारपंजिका: उद्घाटिता:। आयुष्मान-भारत-योजनायाः ६० कोटि-लाभार्थिनः सन्ति, यदा च प्रधानमन्त्री उज्ज्वला-योजनायाः अन्तर्गतं ११ कोटि-गैस-संयोजनानि वितरितानि। तथा च प्रधानमन्त्री किसान-सम्पदा-निधि-योजनया ११ कोटि-कृषकाः वार्षिक-आर्थिक-सहायतां प्राप्नुवन्ति।
रोजगार-निर्माण-क्षेत्रे मुद्रा-योजनायाः अन्तर्गतं ५७ कोटि-लाभार्थिभ्यः प्रायः ३५ लक्ष-कोटि-रुप्यकाणां ऋणं वितरितम्, येन लघु-उद्यमिनः तथा पथ-व्यापारिणः लाभं प्राप्तवन्तः। स्टार्टअप-इण्डिया-योजनायाः अन्तर्गतं १.६ लक्ष-स्टार्टअप-इकाइः तथा ११८ यूनिकॉर्न-उद्यमाः निर्मिताः। स्किल-इण्डिया-अभियान-अन्तर्गतं ५ कोटि-युवानः कौशल-प्रशिक्षणं प्राप्तवन्तः।
नागपुर-नगरस्य विकास-कार्याणां समीक्षां कुर्वन् गडकरी-महोदयेन प्रमुख-मार्केट-आधुनिकीकरण-परियोजनानां विवरणं दत्तम्—यथा कॉटन-मार्केट-पुनर्विकासः, इतवारी-विपणं, दही-विपणं, संत्रा-विपणं, नेताजीविपणं, कमाल-चतुष्पथ-व्यापारिक-संकुलः, बुधवार-विपणं, महाल-पुनर्विकासः, सक्करदरा-बुधवार-विपण-पुनर्विकासः इत्यादयः।
तथा दाभा-स्थित-अग्रो-कन्वेन्शन-केन्द्रं, सोक्ता-भवन-पुनर्विकासः, मोर-भवनं, गणेशपेठ-बस-स्टैण्ड-पुनर्विकासः इत्यादयः अपि परियोजनाः प्रचलन्ति। नागपुर-मेट्रो-द्वितीय-चरणस्य कार्यं प्रचलति, तृतीय-चरणस्य विस्तृत-परियोजना-प्रतिवेदनं च निर्मितम् अस्ति।
नागपुरे ऑक्सीजन-उद्यानं, बर्ड--उद्यानं, एम्स, आईआईएम, राष्ट्रीय-विधि-विश्वविद्यालयः, ट्रिपल-आईटी, बुटीबोरी-ईएसआई-चिकित्सालय:, बौद्ध-सर्किट-योजना, दीक्षाभूमि-पुनर्विकास-परियोजना, स्पोर्ट्स-अथॉरिटी-ऑफ-इण्डिया-केन्द्रं, तथा मदर-डेयरी-परियोजना इत्यादयः विकास-योजनाः अपि वर्णिताः।
सड़क-विकासेन सह रोजगार-सृजनाय अपि बलं दत्तम् अस्ति। मन्त्रालयेन देशव्यापी ड्राइविंग-प्रशिक्षण-केन्द्राणां स्थापना-योजना आरब्धा। जनवरी २०२५-नीत्यानुसारं १६०० प्रशिक्षण-केन्द्राणि स्थापयिष्यन्ते, येषु २४ केन्द्राणि आरब्धानि, ११२ केन्द्रेषु कार्यं प्रचलति। अद्यावधि १० लक्ष-जनाः प्रशिक्षणं प्राप्तवन्तः। पूर्ण-रूपेण कार्यान्वितेषु केन्द्रेषु प्रतिवर्षं प्रायः १.१५ कोटि-जनाः वाहन-चालन-प्रशिक्षणं प्राप्स्यन्ति।
अन्ते नागपुर–हैदराबाद-एक्सप्रेस-वे-परियोजनया उभयोः नगरयोः मध्ये यात्रा-समयः प्रायः साढ़े-त्रि-घण्टासु सीमितः भविष्यति। इन्दोरा–दिघोरी-फ्लाईओवरस्य कार्यं अन्तिम-चरणे अस्ति, यस्य उद्घाटनं ०१ अगस्त २०२६ तमे वर्षे भविष्यतीति अपि सूचितम्।
Hindusthan Samachar / Divya Ranjan