ओमान-तटे ‘लियाकी फ्रीडम्’ नामक-पोते आक्रमणस्य वार्ता मिथ्या, चालक-दलस्य सर्वे सदस्याः सुरक्षिताः - विदेश-मन्त्रालय:
नवदेहली, १३ जूनमासः (हि.स.)। ओमान-देशस्य तटे ‘लियाकी फ्रीडम्’ नामक-पोते आक्रमणस्य तथा भारतीय-नाविकानां मृत्योः सम्बन्धिन्यः वार्ताः भारत-सर्वकारेण पूर्णतया निरस्ताः। विदेश-मन्त्रालयेन स्पष्टतया उक्तं यत् पोते विद्यमानाः चालक-दलस्य सर्वे सदस्याः सुर
समुद्र में जहाज (प्रतीकात्मक फोटो)।


समुद्र में जहाज (प्रतीकात्मक फोटो)।


नवदेहली, १३ जूनमासः (हि.स.)। ओमान-देशस्य तटे ‘लियाकी फ्रीडम्’ नामक-पोते आक्रमणस्य तथा भारतीय-नाविकानां मृत्योः सम्बन्धिन्यः वार्ताः भारत-सर्वकारेण पूर्णतया निरस्ताः। विदेश-मन्त्रालयेन स्पष्टतया उक्तं यत् पोते विद्यमानाः चालक-दलस्य सर्वे सदस्याः सुरक्षिताः सन्ति। मन्त्रालयेन तासां माध्यम-वार्तानां खण्डनम् अपि कृतम्, यासु अमेरिकी-आक्रमणे अस्मिन् पोते स्थिताः भारतीय-नाविकाः मृताः इति उक्तम् आसीत्।

विदेश-मन्त्रालयेन स्वस्य आधिकारिक-वक्तव्ये उक्तं यत् मन्त्रालयेन ‘लियाकी फ्रीडम्’ पोतस्य नायकेन सह संवादः कृतः। तेन पुष्टि: कृता यत् चालक-दलस्य सर्वे सदस्याः सुरक्षिताः सन्ति तथा च प्रसार्यमाणा सूचना मिथ्या अस्ति।

एतस्मात् पूर्वं भारतीय-पोतानां विषये अभवतां अमेरिकी-आक्रमणानां सन्दर्भे विदेशमन्त्री डॉ.एस. जयशङ्करः शनिवासरस्य प्रातःकाले अमेरिकी-विदेशमन्त्रिणा मार्को-रुबियो-महोदयेन सह दूरभाषेण संवादम् अकरोत्। तेन उपसागरे अमेरिकी-नौसेनया कृतानाम् आक्रमणानां परिणामस्वरूपं त्रयाणां भारतीय-नाविकानां मृत्योः विषये भारतस्य तीव्र-विरोधः प्रकटितः।

जयशङ्कर-महोदयः ‘एक्स’ माध्यमे अलिखत्— “अद्य सायंकाले अमेरिकी-विदेशमन्त्रिणा मार्को-रुबियो-महोदयेन सह संवादः कृतः। उपसागरे अमेरिकी-नौसेनया कृतानाम् आक्रमणानां कारणात् त्रयाणां भारतीय-नाविकानां मृत्योः विषये भारतस्य तीव्र-विरोधः अभिव्यक्तः। वाणिज्यिक-पोतानां विरुद्धं एतादृशी घातक-कार्यवाही उचितं नास्ति।”

Hindusthan Samachar / Divya Ranjan