मोदी-सर्वकारस्य द्वादशवर्षाणि - यूनां शक्तेः सामर्थ्याय नूतनां दिशां प्रदातृणि वर्षाणि - केशवप्रसाद-मौर्यः
लखनऊनगरम्, १३ जूनमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसाद-मौर्यः उक्तवान् यत् भारतस्य महान्तमा सम्पत्तिः तस्य युवा-शक्तिः अस्ति। प्रधानमन्त्री-नरेन्द्रमोदिनः कुशल-नेतृत्वे गत-द्वादशवर्षेषु युवान: अवसरैः, कौशल-विकासेन, नवान्वेषणेन नेतृ
उप मुख्यमंत्री केशव प्रसाद मौर्य


लखनऊनगरम्, १३ जूनमासः (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसाद-मौर्यः उक्तवान् यत् भारतस्य महान्तमा सम्पत्तिः तस्य युवा-शक्तिः अस्ति। प्रधानमन्त्री-नरेन्द्रमोदिनः कुशल-नेतृत्वे गत-द्वादशवर्षेषु युवान: अवसरैः, कौशल-विकासेन, नवान्वेषणेन नेतृत्वेन च सम्बद्धाः कृताः, तथा च विकसित-भारतस्य यात्रायाः प्रमुख-सहभागिनः निर्मिताः।

उपमुख्यमन्त्री स्वस्य सामाजिक-माध्यम-सन्देशे लिखितवान् यत् स्टार्टअप-इण्डिया-अभियानस्य अन्तर्गतं अद्य भारते २.२ लक्षाधिकाः स्टार्टअप्-संस्थाः नवान्वेषणस्य रोजगार-सृजनस्य च नूतन-केन्द्राणि जातानि सन्ति। नव-शिक्षा-नीतिः, स्किल-इण्डिया, डिजिटल-इण्डिया, प्रधानमन्त्री-मुद्रा-योजना तथा रोजगार-मेलापक: इत्यादिभिः उपक्रमैः युवभ्यः कौशल-विकासस्य, स्वावलम्बनस्य, रोजगारस्य च नूतनाः अवसराः प्रदत्ताः सन्ति।

तथैव खेलो-इण्डिया-योजना इत्यादिभिः कार्यक्रमैः क्रीडकाणां कृते विश्वस्तरीयं प्रशिक्षणं संसाधनानि च उपलब्धानि कृतानि, येन ते अन्ताराष्ट्रिय-मञ्चेषु उत्कृष्टं प्रदर्शनं कर्तुं समर्थाः अभवन्।

सः अवदत् यत् एषैव मोदी-सर्वकारस्य द्वादशवर्षीय-कार्यकालस्य विशिष्ट: परिचय: अस्ति, यत्र युवान: केवलं रोजगार-अन्वेषकाः न भवन्ति, अपितु रोजगार-अवसरयोः सर्जकाः अपि भवन्ति। “नवान्वेषणात् रोजगारः” तथा “कौशलात् व्यवसायिक-सफलता” इत्येतयोः माध्यमेन युवा-शक्तिः अद्य विकसित-भारतस्य सङ्कल्पस्य साकारकरणे महती शक्तिः रूपेण उद्भूता अस्ति।

सः उक्तवान् यत् एतानि द्वादश-वर्षाणि विश्वासस्य, विकासस्य, जनकल्याणस्य च वर्षाणि सन्ति।

हिन्दुस्थान समाचार / Divya Ranjan