मध्यप्रदेशे विद्यालयेषु अद्य “अपार-आईडी-दिवसः” आचरिष्यते, ३० जूनमासपर्यन्तं च अभियानं प्रचलिष्यति
ग्वालियरनगरम्, १३ जूनमासः (हि.स.)। मध्यप्रदेशराज्यस्य सर्वेषु विद्यालयेषु अद्य शनिवासरे “अपार-आईडी-दिवसः” आचर्यते। अस्मिन् अवसरे पालकानां सहमति-पत्राधारेण बालकानां अपार-आईडी निर्माणं कारयिष्यते। तथैव आधारकार्ड-इत्यत्र दोषाः, तथ्येषु न्यूनता अथवा अन
स्कूलों में मेगा अपार दिवस मनाया गया


ग्वालियरनगरम्, १३ जूनमासः (हि.स.)। मध्यप्रदेशराज्यस्य सर्वेषु विद्यालयेषु अद्य शनिवासरे “अपार-आईडी-दिवसः” आचर्यते। अस्मिन् अवसरे पालकानां सहमति-पत्राधारेण बालकानां अपार-आईडी निर्माणं कारयिष्यते। तथैव आधारकार्ड-इत्यत्र दोषाः, तथ्येषु न्यूनता अथवा अन्यैः तकनीकीकारणैः विलम्बितानां अपार-आईडी-प्रकरणानां निवारणमपि क्रियते।

जनपदपरियोजना-समन्वयकः रविन्द्रसिंह-तोमरः अवदत् यत् विद्यालयीयबालकानां अपार-आईडी-निर्माणाय राज्यशिक्षाकेन्द्रस्य दिशा-निर्देशानुसारं प्रतिशनिवासरं “मेगा अपार-आईडी-दिवसः” आयोज्यते। पालकान् प्रति अपि एषा सुविधा उपयुज्य स्वबालकानां अपार-आईडी-निर्माणाय आह्वानं कृतम्।

तेन उक्तं यत् अपार-आईडी विद्यार्थिनां शैक्षणिक-उपलब्धीनां स्थायी-डिजिटल-अभिलेखस्य संरक्षणे सहायकं भविष्यति। अस्य माध्यमेन विद्यार्थिनां परीक्षा-परिणामाः, समग्र-रिपोर्ट-कार्ड, छात्रवृत्ति-संबन्धिनी सूचना, शिक्षण-फलानि, तथा क्रीडा-कलासांस्कृतिक-इतर-सहशैक्षणिक-उपलब्धयः अपि डिजिटलरूपेण संकलिताः संरक्षिताश्च भविष्यन्ति। अस्य कार्याय विकासखण्ड-स्तरे विकासखण्ड-शिक्षा-अधिकारी तथा विकासखण्ड-स्रोत-समन्वयकः नोडल-अधिकारी रूपेण नियुक्तः अस्ति।

Hindusthan Samachar / Divya Ranjan