Enter your Email Address to subscribe to our newsletters




इन्दौरनगरम्, १३ जूनमासः (हि.स.)। मध्यप्रदेशस्य स्वच्छतायाः प्रतीक-नगरम् इन्दौरनगरे आयोजितस्य पञ्चदिवसीयस्य ब्रिक्स-देशानां उच्चस्तरीय-कृषि-सम्मेलनस्य अन्तिमे दिने शनिवासरे ब्रिक्स-देशानां कृषिमन्त्रिभिः तथा प्रतिनिधिभिः मेघदूत-उपवने विकसितायां ब्रिक्स-वाटिकायां फलदार-वृक्षाणां रोपणं कृतम्। अस्मिन् कार्यक्रमे विदेशी-अतिथयः वृक्षारोपण-माध्यमेन पर्यावरण-संरक्षणस्य तथा हरित-विकासस्य सन्देशं दत्तवन्तः।
अस्मिन् अवसरे केन्द्रीय-कृषिमन्त्री शिवराजसिंह-चौहानः, भागीरथ-चौधरी, मध्यप्रदेशस्य जल-संसाधन-मन्त्री तुलसीराम-सिलावटः, महापौरः पुष्यमित्र-भार्गवः तथा विधायकः रमेश-मेंदोला इत्यादयः बहवः गणमान्याः उपस्थिताः आसन्।
केन्द्रीय-कृषिमन्त्री चौहानः एक्स-इत्यत्र सूचना प्रदत्तवान् यत् इन्दौरे ब्रिक्स-देशानां कृषि-समूहस्य सभा अत्यन्तं सार्थका आसीत्। इन्दौरस्य स्नेहः, प्रेम, आत्मीयता च सर्वान् प्रतिनिधीन् अत्यधिकं प्रफुल्लितवन्तः। एतान् स्मृतिं चिरस्थायिनीं कर्तुं तथा पर्यावरण-संरक्षणस्य सन्देशं दातुं अत्र “ब्रिक्स-वाटिका” स्थापिता अस्ति, यत्र अद्य ब्रिक्स-देशेभ्यः आगतानां गणमान्यानां कृषिमन्त्रिणां, प्रतिनिधिमण्डल-सदस्यानां तथा अन्येषां सहकारिणां सह अहम् अपि वृक्षारोपणं कृतवान्। एषा वाटिका स्नेहस्य, सद्भावस्य, मैत्र्याः च प्रतीकं भविष्यति।
सः अवदत् यत् ब्रिक्स-वाटिकायां स्थापिताः वृक्षाः न केवलं सम्मेलनस्य स्मृतिं संरक्षिष्यन्ति, अपितु पर्यावरण-संरक्षणस्य सन्देशं विश्वं प्रति प्रसारयिष्यन्ति। ते अस्माकं मूल्यानि अपि दर्शयिष्यन्ति—यथा संघर्षस्य स्थाने सामञ्जस्यं, युद्धस्य स्थाने शान्तिः, द्वेषस्य स्थाने प्रेम।
सः इदमपि उक्तवान् यत् एतत् अभियानं हरित-तथा दिग्दर्शित-सतत-भविष्याय अस्माकं सामूहिक-प्रतिबद्धतायाः प्रतीकम् अस्ति। अद्य यः घोषणापत्रः स्वीकृतः भविष्यति, सः “इन्दौर-घोषणा” इति नाम्ना ज्ञायिष्यते, यः वैश्विक-कृषि-सहयोगस्य सुदृढीकरणं तथा खाद्य-सुरक्षायाः सुनिश्चिततां प्रति अस्माकं सामूहिक-इच्छाशक्तिं दर्शयति।
उद्यान-प्रभारी राजेन्द्र-राठौरः अवदत् यत् मेघदूत-उपवने विकसित-“ब्रिक्स-वाटिका” अन्ताराष्ट्रिय-मित्रतायाः, पर्यावरणीय-प्रतिबद्धतायाः तथा सतत-विकासस्य सामूहिक-संकल्पस्य प्रतीकं भविष्यति। पूर्वं प्रवासी-भारतीय-सम्मेलनकाले विकसितं “ग्लोबल-गार्डन”, तथा यूरेशियन-सम्मेलनकाले निर्मितं “यूरेशिया-गार्डन” इत्यस्य अनुकरणेन एषा ब्रिक्स-वाटिका निर्मिता अस्ति।
सः इदमपि अवदत् यत् उपवन-परिसरे “ब्रिक्स-इण्डिया” थीम-आधारितः आकर्षक-द्वीपः निर्मितः अस्ति। तेन सह पाटल-उद्यानं, संगीतमय-फव्वारा, कमल-थीम-शोभा, लैंडस्केपिंग् तथा अन्यानि सौन्दर्यीकरण-कार्याणि अपि कृतानि सन्ति। सम्मेलने भागं गृहीतवन्तः सर्वेषां ब्रिक्स-देशानां राष्ट्रिय-ध्वजाः अपि परिसर-मध्ये स्थापिताः सन्ति, येन सम्पूर्णं क्षेत्रं अन्ताराष्ट्रिय-सांस्कृतिक-विविधतायाः सहयोगस्य च प्रतीकं जातम्।
Hindusthan Samachar / अंशु गुप्ता