महेश-बाबुना ‘राव-बहादुर’ चलचित्रस्य रहस्यमयः टीज़र इति विमोचित:
हैदराबादनगरम्, १३ जूनमासः (हि.स.)। दक्षिणभारतीय-चलच्चित्र-जगतः सुप्रसिद्ध-अभिनेता महेश-बाबुः स्वस्य प्रस्तुतीकरणेन निर्मितस्य बहुप्रतीक्षितस्य ‘राव-बहादुर’ चलचित्रस्य नवीनं टीज़र इति विमोचितवान्, येन दर्शकेषु विशेषः उत्साहः जनितः। वेंकटेश-महामहोदयस
राव बहादुर - फोटो सोर्स एक्स


हैदराबादनगरम्, १३ जूनमासः (हि.स.)। दक्षिणभारतीय-चलच्चित्र-जगतः सुप्रसिद्ध-अभिनेता महेश-बाबुः स्वस्य प्रस्तुतीकरणेन निर्मितस्य बहुप्रतीक्षितस्य ‘राव-बहादुर’ चलचित्रस्य नवीनं टीज़र इति विमोचितवान्, येन दर्शकेषु विशेषः उत्साहः जनितः। वेंकटेश-महामहोदयस्य निर्देशनस्य अन्तर्गतं निर्मिते अस्मिन् मनोवैज्ञानिक-नाट्यप्रधान-चलच्चित्रे अभिनेता सत्यदेवः प्रमुखां भूमिकां निर्वहति। जुलाई-मासस्य तृतीये दिने प्रदर्शितव्यस्य अस्य चलचित्रस्य टीज़र रहस्येन, भ्रमेण तथा मनोवैज्ञानिक-संघर्षैः परिपूर्णस्य अद्वितीयस्य जगतः दृश्यं प्रदर्शितम् अस्ति। महेश-बाबुना टीज़र सहभागीकृत्य लिखितं यत्— “स्मरतु... एषः केवलं टीज़र इति अस्ति।” तेन सम्पूर्ण-चलच्चित्र-दलस्य प्रशंसा अपि कृता।

‘जस्ट् अ टीज़र’ इति नाम्ना प्रकाशितायां अस्यां झलकायां सत्यदेवः बहादुर-राजकुमारस्य पात्रे दृश्यते। टीज़र-इत्यस्य कथा तादृशस्य पुरुषस्य परितः परिभ्रमतीव दृश्यते, यः भयस्य, भ्रमस्य तथा सन्देहस्य जाले बद्धः अस्ति। चलचित्रे “सन्देहः एव महान् भूतः अस्ति” इति अवधारणायाः प्रमुखतया निरूपणं कृतम्, येन एतत् रहस्यमय-मनोवैज्ञानिक-नाट्यरूपेण प्रतिष्ठितम् अस्ति। भव्य-दृश्य-सज्जा, राजकीय-परिवेशः तथा सत्यदेवस्य परिवर्तितः वेशः दर्शकाणां विशेषम् आकर्षणं जनयति।

चलच्चित्रस्य प्रथमं गीतं ‘ओ सुन्दरी’ पूर्वमेव दर्शकेषु लोकप्रियतां प्राप्तवत्। सत्यदेवस्य दीपा-थॉमस-महोदयायाश्च अभिनये निर्मितम् एतत् प्रणय-गीतं मधुर-सङ्गीतस्य कालविशेष-परिवेशस्य च कारणेन प्रशंसितम्। वेंकटेश-महामहोदयः अस्य चलचित्रस्य कथा-लेखनं, निर्देशनं तथा सम्पादनं च स्वयमेव कृतवान्। कार्तिक-परमार-महोदयेन छायाङ्कनं कृतम्, स्मरण-साई-महोदयेन च सङ्गीतं प्रदत्तम्। रहस्यस्य, भावनानां भव्यतायाश्च अद्वितीय-संयोजनेन ‘राव-बहादुर’ इदं वर्षस्य अत्यन्त-रोचक-तेलुगु-चलच्चित्रेषु अन्यतमम् इति मन्यते।

/ अंशु गुप्ता