Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 जूनमासः (हि.स.)।
राष्ट्रिय जैवविविधता प्राधिकरणेन कृषि जैवविविधतायाः संरक्षणं तथा सतत उपयोगेन सम्बद्धेषु विषयेṣu विशेषज्ञपरामर्शप्रदानार्थं कृषि जैवविविधता विशेषज्ञसमितेः एकवर्षीयकालाय पुनर्गठनं कृतम्।
पर्यावरणमन्त्रालयेन शनिवासरे विज्ञप्तिं निर्गत्य सूचितं यत् समितेः अध्यक्षरूपेण पद्मश्री सम्मानितः प्रसिद्धः कृषिविज्ञानी डॉ पी एल गौतम नियुक्तः अस्ति। डॉ पी एल गौतम पूर्वं राष्ट्रीय जैवविविधता प्राधिकरणस्य तथा पादपप्रजाति कृषकाधिकार संरक्षण प्राधिकरणस्य अध्यक्षः अपि आसीत्। पादपप्रजाति कृषकाधिकार संरक्षण प्राधिकरणस्य वर्तमानः अध्यक्षः समितेः सहाध्यक्षः भविष्यति।
राष्ट्रिय जैवविविधता प्राधिकरणस्य अनुसारं वर्ष २००५ तः कार्यरताः एषा समितिः कृषि आनुवंशिक संसाधनानाम्, बीजानां निर्यातस्य, लाभसहभागिता च निर्वहति।
---------------
Hindusthan Samachar / Dheeraj Maithani