Enter your Email Address to subscribe to our newsletters

दिल्लीनगरम्, १३ जूनमासः (हि.स.)। केन्द्र-सर्वकारेण लेफ्टिनेंट-जनरल-धीरज-सेठः देशस्य आगामी-सेनाध्यक्षः नियुक्तः अस्ति। अधुना सः आर्मी-स्टाफस्य उपप्रमुखः अस्ति। सः जूनमासस्य त्रिंशत्तमे दिने मध्याह्नात् वर्तमानस्य सेनाध्यक्षस्य जनरल-उपेन्द्र-द्विवेदी-महोदयस्य सेवानिवृत्तेः अनन्तरं कार्यभारं ग्रहीष्यति।
लेफ्टिनेंट-जनरल-धीरज-सेठः नेशनल-डिफेन्स-अकादम्याः, खडकवासला इत्यस्य पूर्व-छात्रः अस्ति, तथा च डिसेम्बरमास: १९८६ तमे वर्षे आर्म्ड-कोर्प्स-इत्यस्मिन् कमीशन इति प्राप्तवान्।
प्रायः चत्वारिंशद्वर्षात्मक-सैन्य-सेवाकाले तस्य ऑपरेशनल-स्ट्रैटेजिक-क्षमता-विकास-तथा संस्थागत-क्षेत्रेषु व्यापकः अनुभवः प्राप्तः, येन भारतीय-सेनायाः युद्धक्षमतायां परिवर्तनं जातम्।
सः विभिन्नेषु ऑपरेशनल-परिस्थितिषु सर्वस्तरेषु नेतृत्वं कृतवान्। तस्य नेतृत्व-दायित्वेषु मरुभूमि-प्रदेशे एकस्य आर्म्ड-रेजिमेण्ट-इत्यस्य, पश्चिम-थियेटरे एकस्य आर्म्ड-ब्रिगेडस्य, तथा च जम्मू-कश्मीर-प्रदेशे उग्रवाद-विरोधि-बलस्य नेतृत्वं समाविष्टम्।
लेफ्टिनेंट-जनरल-पदे सः भारतीय-सेनायाः प्रमुखेषु स्ट्राइक-फॉर्मेशनमध्ये एकस्य “सुदर्शन-चक्र-कोर्प्स” इत्यस्य कमान्ड इति कृतवान्।
ततः सः दिल्ली-नगरस्य जनरल-ऑफिसर-कमांडिङ्ग इति पदे कार्यं कृत्वा राष्ट्रिय-अन्ताराष्ट्रिय-सैन्य-कार्यक्रमाणां तथा औपचारिक-दायित्वानां निर्वहणं कृतवान्।
आर्मी-कमाण्डर-रूपेण सः साउथ-वेस्टर्न-कमाण्ड-इत्यस्य तथा सदर्न-कमाण्ड-इत्यस्य नेतृत्वं कृतवान्।
तस्य दीर्घ-सैन्य-सेवायां रणनैतिक-निरीक्षणं, ऑपरेशनल-प्लानिङ्ग, तथा क्षमता-विकासः इत्यादिषु क्षेत्रेषु महत्त्वपूर्णं योगदानं दृश्यते।
भारतीय-सेनायाः आधुनिकीकरणे तस्य योगदानं विशेषेण प्रसिद्धम् अस्ति। सः आर्मी-हेडक्वार्टर्स-इत्यत्र रणनीतिक-योजना-विभागेषु महत्त्वपूर्णानि पदानि ऊढवान्।
सः आधुनिकीकरण-दिशां, क्षमता, तथा दीर्घकालीन-सेना-संरचनां आकारितवान्।
सः नूतन-प्रौद्योगिक्याः तथा भविष्य-युद्धक्षेत्रस्य आवश्यकतानां समन्वयं कर्तुं महत्त्वपूर्णं योगदानं कृतवान्।
सः हायर-कमांड-कोर्स-इत्यस्य तथा नेशनल-डिफेन्स-महाविद्यालयस्य स्नातकः अस्ति तथा च पेरिस-नगरे प्रतिष्ठितं कमांड-एण्ड-स्टाफ-पाठ्यक्रमम् अपि सम्पन्नवान्।
Hindusthan Samachar / Divya Ranjan