Enter your Email Address to subscribe to our newsletters

नवदेहली, १३ जूनमासः (हि.स.)। प्रधानमन्त्रीनरेन्द्रमोदी-महोदयस्य फ्रान्सदेशस्य स्लोवाक-गणराज्यस्य च षड्दिवसीयः महत्त्वपूर्णः आधिकारिक-भ्रमण-कार्यक्रमः शनिवासरात् प्रारब्धः। एषः भ्रमण-कार्यक्रमः १८ जूनमासे सम्पन्नः भविष्यति।
स्वीय-प्रस्थानात् पूर्वं प्रधानमन्त्री मोदी-महोदयः यात्रायाः प्रमुख-उद्देश्यान् कार्यक्रमांश्च निरूपयन् ‘एक्स्’ माध्यमेन अलिखत् यत् सः फ्रान्सदेशस्य राष्ट्रपतिना इमैनुएल-मैक्रों-महोदयेन तथा स्लोवाक-गणराज्यस्य प्रधानमन्त्रिणा रॉबर्ट-फिको-महोदयेन प्रदत्त-निमन्त्रणानुसारम् एतां यात्रां करोति। यात्रायाः प्रथम-चरणे सः फ्रान्सदेशस्य नीस-नगरं गमिष्यति।
फ्रान्स-यात्रायाः विषये प्रधानमन्त्री मोदी-महोदयः अवदत् यत् भारतस्य सामरिक-दृष्टौ फ्रान्सदेशस्य विशेषं स्थानम् अस्ति। अस्य वर्षस्य प्रारम्भे राष्ट्रपतिः मैक्रों-महोदयः भारतस्य भ्रमणं कृतवान्, तदा उभयदेशयोः सम्बन्धाः ‘विशिष्ट-वैश्विक-सामरिक-सहभागिता’ इति स्तरं प्राप्तवन्तः। अधुना फेब्रुवरी-मासात् आरभ्य अभवतां प्रगतिं समीक्षिष्यावः।
तेन उक्तं यत् १४ जूनमासे सः राष्ट्रपतिना मैक्रों-महोदयेन सह संयुक्तरूपेण ‘भारत-इनोवेट्स’ कार्यक्रमस्य उद्घाटनं करिष्यति। ‘भारत-फ्रान्स-नवाचार-वर्षस्य’ अन्तर्गतं आयोज्यमानः अयं कार्यक्रमः भारतीय-नवोन्मेष-उद्यमान् वैश्विक-निवेशकैः सह सम्बद्धान् करिष्यति।
नीस्-नगरात् अनन्तरं प्रधानमन्त्री १४-१५ जूनमासयोः स्लोवाक-गणराज्यस्य राजधानीं ब्रातिस्लावा-नगरं प्रति प्रस्थितः भविष्यति। १९९३ तमे वर्षे स्लोवाकिया-देशस्य स्वतन्त्र-राष्ट्रत्व-प्राप्तेः अनन्तरं कस्यापि भारतीय-प्रधानमन्त्रिणः एषा प्रथमा स्लोवाकिया-यात्रा भविष्यति।
तत्र सः राष्ट्रपतिना पेलेग्रिनी-महोदयेन तथा प्रधानमन्त्रीणा रॉबर्ट-फिको-महोदयेन सह द्विपक्षीय-वार्तां करिष्यति। ततः परं स्लोवाकिया-देशस्य प्रमुख-व्यापार-नेतृभिः सह अपि सभां करिष्यति। अस्याः यात्रायाः उद्देश्यं भारत-यूरोपीय-संघयोः मुक्त-व्यापार-अधिनियमस्य प्रगतिं वर्धयितुं तथा यूरोपीय-संघेन सह सामरिक-सहभागितान सुदृढां कर्तुं च अस्ति।
स्लोवाकिया-देशात् प्रधानमन्त्री मोदी-महोदयः प्रत्यक्षं फ्रान्सदेशस्य एवियान्-नगरं गमिष्यति, यत्र १६ तथा १७ जूनमासयोः आयोज्यमाने जी-७ शिखर-सम्मेलने सहभागितां करिष्यति।
तेन उक्तं यत् जी-७ सम्मेलने भारतस्य उपस्थितिः न केवलं देशस्य वर्धमानां वैश्विक-प्रतिष्ठां प्रदर्शयति, अपितु भारतं तत्र ‘वैश्विक-दक्षिणस्य’ आकाङ्क्षाणां विषयाणां च सशक्तं प्रतिनिधित्वमपि करिष्यति।
प्रधानमन्त्री अवदत् यत् सः स्वीयां यात्रां १८ जूनमासे पेरिस-नगरे समापयिष्यति। पेरिस-नगरे राष्ट्रपतिना मैक्रों-महोदयेन सह यूरोप-महाद्वीपस्य बृहत्तमे प्रौद्योगिकी-नवाचार-प्रदर्शने ‘वीवा टेक् २०२६’ इति कार्यक्रमे सहभागितां करिष्यति। अस्मिन् वर्षे अस्मिन् प्रदर्शने अद्यावधि सर्वात् विशालः ‘भारतीय-राष्ट्रीय-मण्डपः’ निर्मितः अस्ति।
एतदतिरिक्तं पेरिस-नगरे निवसद्भिः भारतीय-समुदायस्य सदस्यैः सह अपि सः संवादं करिष्यति।
उल्लेखनीयम् अस्ति यत् एष: निरन्तरम् अष्टमः अवसरः अस्ति यदा भारतदेशः जी-७ शिखर-सम्मेलने विशेष-अतिथिरूपेण आमन्त्रितः अस्ति।
Hindusthan Samachar / Divya Ranjan