Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 13 जूनमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी केन्द्रसर्वकारस्य द्वादशवर्षपूर्त्यवसरे यूनां योगदानस्य प्रशंसाम् अकरोत्। तेन उक्तं यत् भारतस्य युवानः विज्ञानप्रौद्योगिकी, विनिर्माणक्षेत्रे, अन्तरिक्षक्षेत्रे, सेमीकण्डक्टर, ड्रोन इत्यादिषु विविधक्षेत्रेषु स्वप्रतिभायाः उत्कर्षं प्रदर्शयन्ति तथा देशस्य विश्वस्य च भविष्यनिर्माणकर्तृषु क्षेत्रेषु महत्त्वपूर्णं योगदानं कुर्वन्ति। युवानां उपलब्धयः विकसितभारतस्य निर्माणस्य दृढाधाररूपेण भवन्ति।
प्रधानमन्त्री शनिवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र उक्तवान् यत् भारतीययुवानां विविधक्षेत्रेषु उत्कृष्टप्रदर्शनं दृष्ट्वा अत्यन्तं हर्षस्य विषयः अस्ति। देशस्य युवानः नवाचार तथा प्रौद्योगिकी आधारितक्षेत्रेषु नवीनान् कीर्तिमानान् स्थापयन्ति।
प्रधानमन्त्री क्रीडाजगति युवानां योगदानस्य अपि प्रशंसाम् अकरोत्। तेन उक्तं यत् भारतीययुवक्रीडकाः अनेकासु अन्तरराष्ट्रीयप्रतियोगितासु उत्कृष्टं प्रदर्शनं कृत्वा देशस्य गौरवं वर्धितवन्तः। तेषां उपलब्धिभिः वैश्विकमञ्चे भारतस्य प्रतिष्ठा अधिकं दृढा कृता अस्ति।
प्रधानमन्त्री उक्तवान् यत् देशे क्रीडानां कृते श्रेष्ठं पारिस्थितिकतन्त्रम्, आधुनिकाधारसंरचना तथा क्रीडकानां प्रति वर्धमानसहयोगस्य कारणेन युवानां कृते नवीनाः अवसराः उत्पद्यन्ते। अनेन अधिकाधिकाः युवानः क्रीडां जीविकामार्गरूपेण स्वीकर्तुं प्रेरिताः भवन्ति।
तेन उक्तं यत् भारतस्य युवशक्तिः आगामिवर्षेषु देशं नवीनोच्चतासु नेतुं महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani