जसपाल राणा क्रीडानां माध्यमेन भारतस्यावर्धयद् गौरवम्, क्रीडाजगते नूतनामददाद् दिशम् - संघः
नागपुरम्, 13 जूनमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघेन प्रख्यातनिशानेबाजस्य जसपाल राणस्य निधनस्य विषये गभीरं शोकं व्यक्तीकृतम्। संघेन उक्तम् यत् तेन क्रीडामाध्यमेन अन्ताराष्ट्रियस्तरे भारतस्य गौरवः वर्धितः तथा च देशस्य क्रीडाजगतः नूतना दिशा प्रदत्
जसपाल राणा क्रीडानां माध्यमेन भारतस्यावर्धयद् गौरवम्, क्रीडाजगते नूतनामददाद् दिशम् - संघः


नागपुरम्, 13 जूनमासः (हि.स.)।

राष्ट्रीयस्वयंसेवकसंघेन प्रख्यातनिशानेबाजस्य जसपाल राणस्य निधनस्य विषये गभीरं शोकं व्यक्तीकृतम्। संघेन उक्तम् यत् तेन क्रीडामाध्यमेन अन्ताराष्ट्रियस्तरे भारतस्य गौरवः वर्धितः तथा च देशस्य क्रीडाजगतः नूतना दिशा प्रदत्ता। संघेन सामाजिकमाध्यममञ्चे एक्स इत्यत्र उक्तम्, देशस्य सुप्रसिद्धः क्रीडकः पद्मश्रीसम्मानितः जसपाल राणस्य अकालिकनिधने राष्ट्रीयस्वयंसेवकसंघः गभीरं शोकं व्यक्तीकरोति। सः अर्जुनपुरस्कारसम्मानितः श्रेष्ठः निशानेबाजः आसीत्, उच्चकोटिसम्पन्नः प्रतिष्ठितः प्रशिक्षकः च आसीत्, यस्य कृते तस्मै द्रोणाचार्यपुरस्कारः अपि प्रदत्तः। तेन क्रीडायाः माध्यमेन अन्तर्राष्ट्रीयस्तरे भारतस्य सम्मानः वर्धितः। राष्ट्रीयस्वयंसेवकसंघः तस्मै भावपूर्णां श्रद्धाञ्जलिं समर्पयन् ईश्वरात् प्रार्थयति यत् तस्य आत्मनः शान्तिः भवतु।

उल्लेखनीयम् अस्ति यत् जसपाल राणस्य शुक्रवासरे दिल्लीनगरस्य चिकित्सालये निधनम् अभवत्। सः एकोनपञ्चाशद्वर्षीयः आसीत्। म्यूनिखनगरे आयोजितात् आईएसएसएफ विश्वकपस्पर्धातः प्रत्यागच्छन् तस्य स्वास्थ्यं विकृतम् अभवत्, अनन्तरं सः चिकित्सालये प्रवेशितः, यत्र तस्य निधनम् अभवत्। तस्य जन्म २८ जून १९७६ तमे वर्षे उत्तराखण्डस्य उत्तरकाशीक्षेत्रे क्रीडापरिवारे अभवत्। तस्य पिता नारायण सिंह राणा अपि निशानेबाजीक्षेत्रे सम्बद्धः आसीत् तथा च स एव तस्य प्रारम्भिकः प्रशिक्षकः आसीत्।

जसपाल राणः अल्पवयसि एव निशानेबाजीक्षेत्रे स्वप्रतिभायाः प्रमाणं प्रदर्शितवान् तथा च अन्ताराष्ट्रियस्तरे भारतस्य सफलतमेषु निशानेबाजेषु गणितः अभवत्। तेन एशियाक्रीडासु राष्ट्रमण्डलक्रीडासु च भारतस्य कृते अनेकानि स्वर्णपदकानि जितानि। राष्ट्रमण्डलक्रीडासु तेन कुलतः पञ्चदशपदकानि, येषु नव स्वर्णपदकानि सन्ति, जित्वा ऐतिहासिकी उपलब्धिः प्राप्ता। तस्मै १९९४ तमे वर्षे अर्जुनपुरस्कारः तथा १९९७ तमे वर्षे पद्मश्रीसम्मानः प्रदत्तः।

-----------

Hindusthan Samachar / Dheeraj Maithani