Enter your Email Address to subscribe to our newsletters

रायपुर, 13 जूनमासः (हि.स.)।छत्तीसगढस्य सर्वेषु सरकारीय तथा निजी विद्यालयेषु नवशिक्षासत्रात् (२०२६–२७) आरभ्य दिवसस्य आरम्भः राष्ट्रगानेन, राष्ट्रगीतेन च प्रार्थनया सह भविष्यति। विद्यालयशिक्षाविभागेन निर्गतस्य अस्य नवीननियमस्य अन्तर्गतं सर्वेषु विद्यालयेषु प्रार्थनासभातः आरभ्य अवकाशपर्यन्तं निश्चितः समयक्रमः निर्धारितः अस्ति। अस्य विषये विद्यालयशिक्षाविभागः शुक्रवासरे सायंकाले आदेशं निर्गत्य प्रदेशस्य सर्वेभ्यः जिलाशिक्षाधिकारिभ्यः आवश्यकनिर्देशान् प्रदत्तवान्।
प्रातःकालीनसत्रे (प्रार्थनासभायाम्) राष्ट्रगानस्य राष्ट्रगीतस्य च सामूहिकगायनम् अनिवार्यं भविष्यति। तदनन्तरं दीपमन्त्रः, सरस्वतीवन्दना, गुरुमन्त्रः तथा महापुरुषाणां जीवनचरित्रस्य वाचनं भविष्यति। यस्मिन् मासे यस्य महापुरुषस्य जयन्ती भविष्यति, तस्मिन् विषये द्विनिमेषतः पञ्चनिमेषपर्यन्तं व्याख्यानमपि प्रदास्यते। अस्य उद्देश्यं विद्यार्थिषु नैतिकमूल्यानां, अनुशासनस्य भारतीयसांस्कृतिकपरम्पराणां च प्रति जागरूकतायाः विकासः इति उक्तम् अस्ति।
एतदतिरिक्तं मध्याह्नभोजनस्य (मिड्-डे-मील) समये भोजनमन्त्रस्य पाठः अपि कारयिष्यते। तथैव विद्यालयस्य अवकाशसमये राजगीतस्य, गायत्रीमन्त्रस्य शान्तिमन्त्रस्य च सामूहिकपाठः कारयिष्यते। विभागस्य मतानुसारं अनेन विद्यार्थिषु सकारात्मकचिन्तनस्य, संस्काराणां तथा सामूहिकभावनायाः संवर्धनं भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani