Enter your Email Address to subscribe to our newsletters




पूर्वसिंहभूम-जनपदः, १३ जूनमासः (हि.स.)। जमशेदपुरस्य समृद्धां सांस्कृतिक-कलात्मक-परम्परां नूतन-उच्चताभ्यः नेतुम् उद्दिश्य आर्टिस्ट्-फोरम-ऑफ-जमशेदपुर-संस्थया आयोजितायाः द्विदिवसीय-कला-प्रदर्शन्याः ‘शिमुल्-२६’ इत्यस्याः शुभारम्भः शनिवासरे बंगाल-क्लब-स्थितायाम् आचार्य-नन्दलाल-बोस-कला-दीर्घायाम् अभवत्। प्रातः ९:३० वादने उद्घाटनसमारम्भेन आरब्धायाम् अस्यां प्रदर्शन्यां नगरस्य समीपवर्तिक्षेत्राणां च प्रतिभाशालिनां कलाकराणाम् उत्कृष्ट-कलाकृतयः आकर्षणस्य केन्द्रं जाताः सन्ति।
अस्यां प्रदर्शिन्यां कलायाः विविध-विधीनां शैलीनां च अद्भुतः समन्वयः दृश्यते। अत्र प्रदर्शितानि चित्राणि, रेखाचित्राणि, जलवर्ण-चित्राणि, ऐक्रेलिक-कलाकृतयः, आधुनिक-कला तथा पारम्परिक-चित्रकलायाः कृतयः कला-प्रेमिणः स्वाभिमुखं आकर्षयन्ति। कलाकरैः स्वकीय-रचनाभिः प्रकृतेः सौन्दर्यं, सामाजिक-विषयाः, मानवीय-संवेदनाः, सांस्कृतिक-धरोहरः तथा आधुनिक-जीवनस्य चुनौत्यः प्रभावपूर्णतया प्रस्तुताः सन्ति।
उद्घाटन-समारम्भे कलाकराः, कला-प्रेमिणः, शिक्षाविदः तथा सांस्कृतिक-क्षेत्रे सम्बद्धाः गणमान्याः उल्लेखनीय-सङ्ख्यया उपस्थिताः आसन्। आगन्तुकाः विविध-कलाकृतीनां अवलोकनं कृत्वा कलाकराणां सृजनात्मक-चिन्तनस्य, कल्पनाशक्तेः तथा तकनीकी-दक्षतायाः प्रशंसाम् अकुर्वन्। अनेकाः कलाकृतयः स्वकीय-मौलिकतया, विषय-वस्तुना तथा वर्णानां उत्कृष्ट-संयोजनेन विशेषम् आकर्षणं जनयन्ति।
आर्टिस्ट्-फोरम-ऑफ-जमशेदपुर-संस्थायाः पदाधिकारिणः अवदन् यत् ‘शिमुल-२६’ इत्यस्य मुख्योद्देश्यं स्थानीय-उदीयमान-कलाकारेभ्यः स्वप्रतिभा-प्रदर्शनाय प्रभावी-मञ्चस्य प्रदानम् अस्ति। तेन सह समाजे कला-संस्कृत्यौ प्रति जागरूकतां वर्धयितुं जनान् च सृजनात्मक-क्रियाकलापैः सम्बद्धुं प्रयत्नः क्रियते। ते अवदन् यत् कला केवलं मनोरञ्जनस्य साधनं नास्ति, अपितु समाजस्य भावनानां विचाराणां परिवर्तनानां च अभिव्यक्तेः सशक्तं माध्यममपि अस्ति।
आयोजकानां मते एषा प्रदर्शिनी युवा-कलाकाराणां कला-विद्यार्थिनां च कृते अनुभवी-कलाकाराणां कृतयः समीपतः द्रष्टुं ताभ्यः प्रेरणां च प्राप्तुं अवसरं प्रदास्यति। एतादृशाः आयोजनाः नूतन-प्रतिभानां परिचयं कारयन्ति तथा तासां कलां व्यापक-दर्शकवर्गं प्रति नेतुं अवसरमपि प्रददति।
एषा द्विदिवसीया प्रदर्शिनी १३ तथा १४ जूनपर्यन्तं प्रवर्तिष्यते। प्रदर्शिनी प्रतिदिनं प्रातः १० वादनात् सायं ७ वादनपर्यन्तं सर्वसाधारणजनानां कृते उद्घाटिता भविष्यति। आयोजकैः नगरवासिनः, विद्यार्थीनः, कला-प्रेमिणः तथा सांस्कृतिक-क्रियाकलापेषु रुचिं धारयन्तः जनाः प्रदर्शिनीं समागत्य कलाकराणाम् उत्साहवर्धनं कर्तुं कला-महोत्सवस्य च भागिनः भवितुम् आहूताः।
आर्टिस्ट्-फोरम-ऑफ-जमशेदपुर-संस्थायाः प्रतिनिधयः विश्वासं व्यक्तवन्तः यत् ‘शिमुल-२६’ कलाकराणां दर्शकाणां च मध्ये संवादस्य प्रभावी-मञ्चः भविष्यति तथा नगरस्य सांस्कृतिक-परिचयं अधिकं सुदृढं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति। ते अवदन् यत् एतादृशानि आयोजनानि समाजे सृजनशीलतां प्रोत्साहयन्ति तथा नवीनं वंशं कला-संस्कृत्यौ प्रति प्रेरयन्ति।
Hindusthan Samachar / Divya Ranjan