Enter your Email Address to subscribe to our newsletters

जम्मूः, 13 जूनमासः (हि.स.)।
आगामिनी श्री अमरनाथजी यात्रां दृष्ट्वा जम्मू जनपदस्य वरिष्ठपुलिसअधीक्षकः जोगिन्दर सिंहः जनपदपुलिसरेखासु जम्मूनगरे व्यापकसुरक्षाप्रबन्धन समन्वय उपवेशनस्य अध्यक्षतां कृतवान्। अस्य उपवेशनस्य उद्देश्यः वार्षिकयात्रायाः कृते सुरक्षाव्यवस्थानां समीक्षा कृत्वा तासां सुदृढीकरणम् आसीत्।
उपवेशने जम्मू जनपदपुलिसस्य वरिष्ठाधिकारिणः, सीआरपीएफ, बीएसएफ, एसएसबी, आईटीबीपी, गुप्तचरसंस्थानानि, नागरिकप्रशासनस्य, यातायातपुलिसस्य, दूरसंचारविभागानां तथा आपदाप्रबन्धनप्राधिकरणानां प्रतिनिधयः सहभागं कृतवन्तः।
चर्चायाः मुख्यकेन्द्रं यात्रायाः सुरक्षितशान्तिपूर्णसञ्चालनाय सर्वेषां सम्बद्धपक्षाणां मध्ये उत्तमसमन्वयस्य सुनिश्चितीकरणम् आसीत्।
उपवेशनकाले वरिष्ठपुलिसअधीक्षकः जम्मू अधिकसावधानतायाः आवश्यकतायां बलं दत्तवान् तथा सर्वाभ्यः सम्बद्धसंस्थाभ्यः गस्तवृद्धिं, आकस्मिक नाकापरीक्षणं कर्तुं तथा कस्यापि आपत्कालीनस्थितौ त्वरितकार्यवाहिनीनां रणनीतिकनियोजनं सुनिश्चितं कर्तुं निर्देशान् दत्तवान्। विधिव्यवस्थाप्रबन्धनम्, यातायातनियमनम्, जनसमूहप्रबन्धनम्, सीमासुरक्षा, आपत्कालीनप्रतिक्रियातन्त्रं तथा विभिन्नसंस्थानां मध्ये समन्वयः इत्यादिषु विस्तृतरूपेण चर्चा कृता।
प्रौद्योगिकीआधारितसुरक्षोपायेषु विशेषबलं प्रदत्तम् यस्मिन् उन्नत सीसीटीवी निरीक्षणम्, समन्वितनियन्त्रणकक्षस्य माध्यमेन वास्तविकसमयनिरीक्षणम् तथा शीघ्रं सूचना विनिमयस्य प्रतिक्रियायाश्च कृते संचारजालस्य सुदृढीकरणम् अन्तर्भूतम् अस्ति।
वरिष्ठपुलिसअधीक्षकः जम्मू यात्राकाले सुरक्षितपरिवेशस्य संरक्षणे सामाजिकसहभागितायाः जनसहयोगस्य च महत्त्वं रेखाङ्कितवान्। नागरिकेभ्यः सावधानाः भवितुं तथा कस्यापि सन्दिग्धक्रियाकलापस्य सूचना शीघ्रं समीपस्थपुलिसएककाय नियन्त्रणकक्षाय वा दातुं आग्रहः कृतः।
गुप्तचरसंस्थानानां प्रतिनिधिभिः नवीनतमाः सुरक्षा संसूचनाः मूल्याङ्कनानि च सहभाजितानि। एतत् निश्चितं कृतम् यत् गुप्तसंसूचनायाः समये प्रसारणम्, नियमितसंयुक्तसमन्वयाभ्यासाः तथा संवेदनशीलस्थानानां कठोरनिरीक्षणं यात्राकालस्य अवधौ मुख्यप्राथमिकताः भविष्यन्ति।
अनुकरणाभ्यासान् आयोजयितुं, सुरक्षाचौकीनां सुदृढीकरणं कर्तुं, आपत्कालीनयोजनानां समीक्षा कर्तुं तथा सज्जतायाः मूल्याङ्कनार्थं उद्भवन्तीनां चुनौतीनां समाधानार्थं च उपविभागस्तरे साप्ताहिकसमीक्षाउपवेशनानि आयोजयितुं निर्देशाः अपि प्रदत्ताः।
उपवेशनस्य समापनं कुर्वन् वरिष्ठपुलिसअधीक्षकः जम्मू पुनः उक्तवान् यत् तीर्थयात्रिणां निवासिनां च सुरक्षा सुनिश्चितीकरणं सर्वोच्चप्राथमिकता एव वर्तते।
तेन अस्मिन् विषये बलं दत्तम् यत् यात्राकाले जम्मू जनपदे शान्तेः, सुरक्षायाः स्थिरतायाः च संरक्षणे पूर्वसक्रियपुलिसकार्यप्रणाली, विभिन्नसंस्थानां मध्ये दृढसमन्वयः तथा जनानां सक्रियसहयोगः महत्त्वपूर्णां भूमिकां निर्वक्ष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani