Enter your Email Address to subscribe to our newsletters

--अधुना मुम्बईनगरस्य प्रयाणं संजातं सरलम्।
प्रयागराजः, 13 जूनमासः (हि.स)। रेलप्रशासनेन ग्रीष्मकाले यात्रिभ्यः प्राकृतिकसौन्दर्यस्य धार्मिकधरोहरायाः सांस्कृतिकविरासतायाश्च स्थलेषु गमनसुविधां प्रदातुं सूबेदारगञ्जतः वलसाडपर्यन्तं ग्रीष्मकालीनविशेषयानस्य सञ्चालनस्य निर्णयः कृतः।एतां सूचनां वरिष्ठजनसम्पर्काधिकारी अमित मालवीय शनिवासरे अदात्। तेन उक्तं यत् गाडी संख्या ०४१७७ ०४१७८ सूबेदारगञ्ज वलसाड सूबेदारगञ्ज ग्रीष्मकालीन विशेषगाडी साप्ताहिकरूपेण सञ्चालित भविष्यति। गाडी ०४१७७ सूबेदारगञ्जतः प्रत्येकं मङ्गलवासरे १६ जूनतः १४ जुलाई पर्यन्तं पञ्चवारं तथा गाडी ०४१७८ वलसाडतः प्रत्येकं बुधवासरे १७ जूनतः १५ जुलाई पर्यन्तं पञ्चवारं चलिष्यति। गाडीसंरचनायां एसएलआरडी ०२ सामान्यश्रेणी ०८ शयनयानश्रेणी ०८ एसी तृतीयश्रेणी ०१ सहित कुलतः १९ कोचाः भविष्यन्ति।
अब मुम्बई का सफर और भी हुआ आसान
जनसम्पर्काधिकारिणा अग्रे उक्तं यत् उत्तरमध्यरेलविभागेन यात्रिणां सुविधां दृष्ट्वा सूबेदारगञ्जतः दादरपर्यन्तं नूतनस्य साप्ताहिकस्य सुपरफास्ट ग्रीष्मकालीन विशेषयानस्य ०४१७५ ०४१७६ सञ्चालनस्य निर्णयः कृतः। यत् प्रत्येकं रविवासरे सूबेदारगञ्जतः प्रस्थानं करिष्यति। अस्याः नूतनसेवायाः आरम्भेण अधुना सूबेदारगञ्ज प्रयागराजतः मुम्बई क्षेत्रपर्यन्तं रेलसुविधा उपलब्धा भविष्यति येन यात्रिभ्यः महान् लाभः भविष्यति।
तेन अग्रे अपि उक्तं यत् गाडी संख्या ०४१७५ ०४१७६ सूबेदारगञ्ज दादर साप्ताहिक सुपरफास्ट ग्रीष्मकालीन विशेषगाडी ०४१७५ सूबेदारगञ्जतः प्रत्येकं रविवासरे २१ जूनतः १२ जुलाई पर्यन्तं चत्वारि फेरे तथा गाडी ०४१७६ दादरतः प्रत्येकं मङ्गलवासरे २३ जूनतः १४ जुलाई पर्यन्तं चत्वारि फेरे चलिष्यति। गाडीसंरचनायाम् एसएलआर ०१ एसएलआरडी ०१ सामान्यश्रेणी ०५ एसी तृतीयश्रेणी ०६ एसी द्वितीयश्रेणी ०१ शयनयानश्रेणी ०८ सहित कुलतः २२ कोचाः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani