मुख्यमन्त्रिणा योगी-आदित्यनाथेन न्यायालय-स्थानान्तरणस्य सञ्चिकां शासनाय प्रेषयितुं निर्देशाः प्रदत्ताः
वाराणसीनगरम्, १३ जूनमासः (हि.स.)। दि सेन्ट्रल बार एसोसिएशन वाराणसी इत्यस्य अध्यक्षः प्रेमप्रकाश-गौतमः तथा महामन्त्री आशीषकुमार-सिंहः मुख्यमन्त्रिणा योगी-आदित्यनाथेन सह मिलित्वा न्यायालयस्य स्थानान्तरण-विषयं प्रस्तुतवन्तौ। तस्मिन् विषये मुख्यमन्त्रि
वाराणसी कचहरी


वाराणसीनगरम्, १३ जूनमासः (हि.स.)। दि सेन्ट्रल बार एसोसिएशन वाराणसी इत्यस्य अध्यक्षः प्रेमप्रकाश-गौतमः तथा महामन्त्री आशीषकुमार-सिंहः मुख्यमन्त्रिणा योगी-आदित्यनाथेन सह मिलित्वा न्यायालयस्य स्थानान्तरण-विषयं प्रस्तुतवन्तौ। तस्मिन् विषये मुख्यमन्त्रिणा वाराणसी-जनपदस्य जनपदाधिकारिणे निर्देशाः प्रदत्ताः यत् अधिवक्तृणां माग्यानुसारं चिह्नीकृतभूमेः सम्पूर्ण-विवरणयुक्तां सञ्चिकां शासनाय अप्रेषयेत्।

दि सेन्ट्रल बार एसोसिएशन वाराणसी इत्यस्य अध्यक्षः प्रेमप्रकाश-गौतमः शनिवासरे अवदत् यत् मुख्यमन्त्री योगी-आदित्यनाथः गोपनीय-वार्तालापस्य अवसरं दत्तवान्। तस्मिन् अवसरे वयं न्यायालयस्य स्थानान्तरणस्य विषयं दृढतया प्रस्तुतवन्तः। अधिवक्तृणां वर्धमानां सङ्ख्यां दृष्ट्वा न्यायालयाय केन्द्रीय-कारागारस्य पार्श्वे स्थितां कृषिभूमिं प्रदातुं याचना कृता।

प्रेमप्रकाश-गौतमः अग्रे अवदत् यत् मुख्यमन्त्री अस्माकं निवेदनं श्रुत्वा वाराणसी-जनपदस्य जिलाधिकारिणं समाहूय केन्द्रीय-कारागारस्य समीप-वर्तिन्याः भूमेः सम्पूर्ण-विवरणं सञ्चिकायां सङ्गृह्य शासनाय प्रेषयितुं निर्देशान् दत्तवान्।

अधुना न्यायालये अधिवक्तृणां वर्धमान-सङ्ख्यायाः कारणेन उपवेशनार्थं पर्याप्तं स्थानं न अवशिष्टम्। अतः न्यायालयस्य स्थानान्तरणं अत्यन्तम् आवश्यकं वर्तते।

Hindusthan Samachar / Divya Ranjan