Enter your Email Address to subscribe to our newsletters

गदरपुरम्, 13 जूनमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्कर सिंह धामी शनिवासरे ऊधम सिंह नगर जनपदस्य गदरपुर क्षेत्रे प्रस्तावितायाः अन्ताराष्ट्रिय क्याकिंग तथा कैनोइंग प्रतियोगितायाः सज्जतायाः स्थलीय निरीक्षणं कृत्वा व्यवस्थायाः अवलोकनम् अकरोत्। अस्मिन् अवसरे मुख्यमन्त्री उक्तवान् यत् अन्ताराष्ट्रिय क्रीडायोजनैः उत्तराखण्डः साहसिकक्रीडानां पर्यटनस्य च प्रमुखं केन्द्रं भविष्यति।मुख्यमन्त्री आयोजनस्थले क्रीडकानां कृते उपलब्धानां सुविधानां सुरक्षा व्यवस्थायाः तकनीकी प्रबन्धानाम् आवागमनस्य आवासस्य अन्येषां आवश्यकव्यवस्थानां च सूक्ष्मतया निरीक्षणम् अकरोत्। तेन अधिकारिभ्यः निर्देशाः दत्ताः यत् प्रतियोगितायाः सफलाय आयोजनाय सर्वाः सज्जताः निर्धारितमानकानुसारं समयबद्धरीत्या सम्पूर्णाः क्रियन्ताम्। देशविदेशेभ्यः आगच्छन्तः क्रीडकाः प्रशिक्षकाः निर्णायकाः प्रतिभागिनश्च कस्यापि प्रकारस्य असुविधां न प्राप्नुयुः इति हेतोः सर्वे विभागाः समन्वयेन कार्यं कुर्वन्तु।निरीक्षणकाले मुख्यमन्त्री स्वयम् अपि जलक्रीडागतिविधीनां अनुभवम् अलभत। सः उक्तवान् यत् उत्तराखण्डे साहसिकक्रीडानां अपरिमिताः सम्भावनाः सन्ति तथा राज्यस्य प्राकृतिकपरिस्थितयः जलक्रीडायै पर्वतीयक्रीडाभ्यः साहसिकक्रीडाभ्यश्च अत्यन्तम् अनुकूलाः सन्ति। सरकार क्रीडासुविधानां विस्ताराय आधुनिकक्रीडाअवसंरचनायाः विकासाय च निरन्तरं प्रयत्नं करोति।
मुख्यमन्त्री धामी उक्तवान् यत् राज्यसरकारस्य उद्देश्यम् उत्तराखण्डं क्रीडाक्षेत्रे राष्ट्रियः अन्ताराष्ट्रियःच परिचयं प्राप्तुं समर्थं कर्तुम् अस्ति। अस्य कृते क्रीडकानां उत्तमप्रशिक्षणं आधुनिकसुविधाः अधिकाः अवसराश्च प्रदीयन्ते तथा महतां क्रीडायोजनानां प्रोत्साहनम् अपि क्रियते। सः उक्तवान् यत् अन्तरराष्ट्रीय प्रतियोगिताः युवा क्रीडकानां स्वप्रतिभायाः प्रदर्शनाय वैश्विकमञ्चे अग्रे गन्तुं च अवसरं प्रददति।एतादृशैः आयोजनैः क्रीडागतिविधीनां प्रोत्साहनं भवति तथा पर्यटनस्य स्थानीयव्यवसायस्य रोजगारस्य आर्थिकगतिविधीनां च नूतना गतिः अपि प्राप्यते।
मुख्यमन्त्री उक्तवान् यत् प्रदेशसर्वकारः क्रीडाः जनजनपर्यन्तं प्रसारयितुं युवानः क्रीडासु प्रोत्साहयितुं च विभिन्नस्तरेषु कार्यं करोति। क्रीडाप्रतिभानां परिचयः प्रशिक्षणसुविधानां विस्तारः उत्कृष्टक्रीडकानां प्रोत्साहनं च इत्येषु क्षेत्रेषु निरन्तराः प्रयत्नाः क्रियमाणाः सन्ति।
अस्मिन् अवसरे विधायकः अरविन्द पाण्डेय सहिताः विभिन्नविभागानाम् अधिकारिणः उपस्थिताः आसन्।
--------------
Hindusthan Samachar / Dheeraj Maithani