छत्तीसगढ़म् - गिरिराज-सिंहेन बाबा-साहब-आम्बेडकराय श्रद्धाञ्जलिः अर्पिता
रायपुरनगरम्, १३ जूनमासः (हि.स.)। छत्तीसगढ़-राज्यस्य राजधानी-रायपुर-नगर-प्रवासकाले शनिवासरे केन्द्रीय-वस्त्र-मन्त्रिणा गिरिराज-सिंहेन आम्बेडकर-चतुष्पथं गत्वा भारतरत्न-डॉ.भीमराव-आम्बेडकरस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धासुमनानि अर्पितानि। अस्
भारत रत्न डॉ भीमराव अंबेडकर की प्रतिमा पर माल्यार्पण कर श्रद्धासुमन अर्पित करते हुए केंद्रीय वस्त्र मंत्री गिरिराज सिंह


केंद्रीय वस्त्र मंत्री गिरिराज सिंह


रायपुरनगरम्, १३ जूनमासः (हि.स.)। छत्तीसगढ़-राज्यस्य राजधानी-रायपुर-नगर-प्रवासकाले शनिवासरे केन्द्रीय-वस्त्र-मन्त्रिणा गिरिराज-सिंहेन आम्बेडकर-चतुष्पथं गत्वा भारतरत्न-डॉ.भीमराव-आम्बेडकरस्य प्रतिमायां माल्यार्पणं कृत्वा श्रद्धासुमनानि अर्पितानि।

अस्मिन् अवसरे सः स्वच्छता-मित्राणां शालया श्रीफलेन च सम्मानं कृत्वा तेषां कृते मेडिकल-किट् अपि प्रदत्तवान्। स्वच्छता-कर्मिभिः सह संवादं कुर्वन् सः स्वच्छ-भारत-अभियाने तेषां समर्पणं, परिश्रमं तथा महत्त्वपूर्णं योगदानं प्रशंसितवान्। सः अवदत् यत् स्वच्छता केवलं अभियानं नास्ति, अपितु जनभागितया राष्ट्र-निर्माणस्य सशक्तं माध्यमम् अस्ति। प्रधानमन्त्री-नरेन्द्रमोदिनः नेतृत्वे स्वच्छ-भारत-अभियानेन सम्पूर्णे देशे स्वच्छतायाः विषये नूतना जागरूकता उत्पन्ना अस्ति इति अपि सः उक्तवान्।

तदनन्तरं केन्द्रीय-मन्त्री गिरिराज-सिंहः कलेक्ट्रेट-परिसरस्य समीपे स्थितम् ऑक्सीजोन-उद्यानं गत्वा सांसदः बृजमोहन-अग्रवालः तथा विधायकेन पुरन्दर-मिश्रेण सह “एकं वृक्षं मातुः नाम्ना” इति अभियानान्तर्गतं वृक्षारोपणं कृतवान्। वृक्षारोपणानन्तरं सः ऑक्सीजोन-परिसरे उपस्थिताभिः महिलाभिः सह पर्यावरण-संरक्षणस्य जनभागितायाः च महत्त्वं विषये संवादं कृतवान्।

अस्मिन् अवसरे महापौरः मीनल-चौबे इत्यादयः अन्ये जनप्रतिनिधयः गणमान्याः नागरिकाश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani