केंद्रीय मंत्री गिरिराज सिंहो मुख्यमंत्रिणा विष्णुदेव सायेन सहाकरोत् सौजन्यमेलनम्
रायपुरम्, 13 जूनमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव सायेन अद्य शनिवासरे राजधानी रायपुरस्थिते मुख्यमन्त्रिनिवासकार्यालये केन्द्रीयमन्त्री गिरिराज सिंहेन सह सौजन्यमिलनं कृतम्। मुख्यमन्त्री विष्णुदेव सायः केन्द्रीयमन्त्री गिरिराज सिंहस्य शालं स्मृ
केंद्रीय मंत्री गिरिराज सिंह का पुष्पगुच्छ भेंट कर आत्मीय स्वागत करते हुए मुख्यमंत्री विष्णु देव साय


रायपुरम्, 13 जूनमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेव सायेन अद्य शनिवासरे राजधानी रायपुरस्थिते मुख्यमन्त्रिनिवासकार्यालये केन्द्रीयमन्त्री गिरिराज सिंहेन सह सौजन्यमिलनं कृतम्।

मुख्यमन्त्री विष्णुदेव सायः केन्द्रीयमन्त्री गिरिराज सिंहस्य शालं स्मृतिचिह्नं च समर्प्य आत्मीयं स्वागतं कृतवान्। मुख्यमन्त्री सायः अवदत् यत् प्रधानमन्त्रिणः नरेंद्र मोदीस्य नेतृत्वे केन्द्रराज्यसरकारयोः मध्ये श्रेष्ठः समन्वयः निरन्तरसंवादस्य च भावना विकासकार्याणि नवीनां गतिं प्रदत्तवती। अस्य सहकारात्मकदृष्टिकोणस्य परिणामस्वरूपं जनकल्याणकारिणां योजनानां लाभः समाजस्य अन्तिमव्यक्तिपर्यन्तं प्रभावकरूपेण प्राप्यते।

मुख्यमन्त्री सायः अवदत् यत् केन्द्रराज्ययोः मध्ये दृढसहभागितया अधोसंरचनाविकासः, उद्योगः, रोजगारः, कौशलविकासः तथा जनसेवासम्बद्धेषु विविधक्षेत्रेषु नवीनाः अवसराः निर्मीयन्ते। तेन विश्वासः व्यक्तः यत् परस्परसहयोगेन समन्वयेन च छत्तीसगढस्य विकासः अधिकं सुदृढः भविष्यति तथा विकसितछत्तीसगढस्य सङ्कल्पस्य साकारीकरणे सहायता प्राप्ता भविष्यति।

अस्मिन् अवसरे सांसद बृजमोहन अग्रवाल उपस्थितः आसीत्।

---------------

Hindusthan Samachar / Dheeraj Maithani