Enter your Email Address to subscribe to our newsletters

औरैयाजनपदः, १३ जूनमासः (हि.स.)। उत्तरप्रदेशस्य औरैयाजनपदस्य बाबरपुर-नगरे शनिवासरे आयोज्यमानायाः श्रीमद्भागवत-कथायाः शुभारम्भावसरे भव्य-कलश-यात्रा निर्गता। अस्यां कलश-यात्रायां बहुसंख्यक-श्रद्धालूनां सहभागितया सम्पूर्णं नगरं भक्तिमय-वातावरणेन आप्लावितम् अभवत्। स्थाने-स्थाने श्रद्धालुभिः पुष्पवृष्टिं कृत्वा यात्रायाः स्वागतं कृतम्।
कलश-यात्रायाः शुभारम्भः विधि-विधानैः वैदिक-मन्त्र-उच्चारणैश्च सम्पन्नः। कथायाः परीक्षितः रामकुमार-पोरवालः स्वधर्मपत्न्या शिवकुमारी-पोरवालया सह शिरसि पवित्र-कलशं धारयन् यात्रायां सम्मिलितः। अपरत्र कथा-व्यासः पण्डित-रजनीश-त्रिपाठी सुसज्जित-रथे विराजमानः श्रद्धालून् धर्म-भक्ति-मार्गे प्रेरयन् यात्रायाः नेतृत्वम् अकरोत्।
यात्रायां सम्मिलिताभिः महिलाभिः पीत-वस्त्राणि धारितानि, शिरसि कलशाः स्थापिताश्च। ताः मङ्गल-गीतानि गायन्त्यः नगरस्य प्रमुख-मार्गेषु परिभ्रमणम् अकुर्वन्। श्रद्धया आस्थया च परिपूर्णानां तासां भजन-कीर्तनैः जयघोषैश्च सम्पूर्णं वातावरणं भक्तिरसेन निमग्नम् अभवत्। यात्राकाले श्रद्धालुभिः भगवत: जयकाराः निरन्तरं उच्चारिताः, येन नगरस्य वातावरणम् पूर्णतया आध्यात्मिकम् अभवत्।
कलश-यात्रायाः समये परीक्षित-दम्पती नगरस्य विभिन्न-देवस्थानानि गत्वा पूजा-अर्चनां कृतवन्तौ। क्षेत्रस्य सुख-समृद्धये, शान्तये तथा जनकल्याणाय प्रार्थना कृता। नगरवासिनोऽपि उत्साहपूर्वकं यात्रायां भागं गृहीत्वा कथा-आयोजनस्य सफलतायै शुभकामनाः प्रदत्तवन्तः।
कार्यक्रमस्य सफल-सञ्चालने व्यवस्थासु च मनोज-पोरवालः, अशोक-पोरवालः, कपिल-पोरवालः, राहुल-पोरवालः, जय-पोरवालः, देव-पोरवालः, रविन्द्र-पोरवालः, दिनेशचन्द्र-पोरवालः, अर्पित-पोरवालः, पारस-पोरवालः, ऋषभः, श्वेतः, अमन-राघवः तथा अन्ये बहवः श्रद्धालवः विशेषं सहयोगं प्रदत्तवन्तः।
Hindusthan Samachar / Divya Ranjan