Enter your Email Address to subscribe to our newsletters

उरई, 13 जूनमासः (हि.स.)।
उत्तरप्रदेशसर्वकारे इक्षुविकासविभागस्य तथा जालौनजनपदस्य प्रभारीमन्त्री संजय सिंह गंगवार शुक्रवासरे उरईतहसीलक्षेत्रस्य रगौलीग्रामं प्राप्नोत्। रात्रौ जनचौपालस्य आयोजनम् अभवत्। अस्मिन् अवसरे तेन ग्रामीणजनानां समस्याः धैर्येण श्रुताः तथा सम्बद्धाधिकारिभ्यः तत्रैव तासां समाधानाय निर्देशाः प्रदत्ताः।
रात्रौ विलम्बेन मन्त्री संजय सिंह गंगवार रगौलीग्रामे रात्रिचौपालस्य समये जनानां समस्याः अशृणोत्। सहैव सर्वकारस्य योजनानां प्रत्यक्षलाभः जनतायाः समीपं प्राप्नुयात् इति विषये सम्बद्धाधिकारिणः प्रति कठोरनिर्देशान् प्रदत्तवान्। अस्य क्रमस्य अन्तर्गतं तेन डिजिटल इण्डिया अभियानस्य अन्तर्गतं ग्रामे एकस्य पुस्तकालयस्य उद्घाटनम् अकरोत्, येन ग्रामीणक्षेत्रेषु डिजिटलशिक्षायाः प्रोत्साहनं भवेत्।
तथैव राष्ट्रव्यापिचर्चायाम् आगतस्य नीट प्रश्नपत्रप्रस्रवणप्रकरणस्य विषये मन्त्री प्रतिक्रियां दत्त्वा उक्तवान् यत् प्रश्नपत्रस्य कस्यापि परीक्षायाः प्रस्रवणं भवितुं शक्नोति, किन्तु सर्वकारेण तत्क्षणमेव संज्ञानं गृहीतम्। आवश्यकानि पदानि गृहीतानि, कार्यवाही कृता, पुनः परीक्षा कारिता। अपि च परीक्षार्थिनां सुविधार्थं बसयानस्य भाटके अपि शिथिलता प्रदत्ता।।
---------------
Hindusthan Samachar / Dheeraj Maithani