लोककल्याणस्य भावनैव प्रत्येकम् अनुसन्धानस्य पृष्ठे निहिता भवति, अनुसन्धानं विकासाय एव क्रियते - योगी-आदित्यनाथः
वाराणसीनगरम्, १३ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् किमपि अनुसन्धानं विकासार्थमेव क्रियते। तस्य पृष्ठे लोककल्याणस्य भावना निहिता भवति। अन्ततः तस्य उद्देश्यं राष्ट्रस्य दृढीकरणं सशक्तीकरणं च भवति। द्विदिवसीयस्य
विज्ञान भारती के 7वें राष्ट्रीय अधिवेशन में मुख्यमंत्री व विशिष्ट अतिथि


विज्ञान भारती के 7वें राष्ट्रीय अधिवेशन में मुख्यमंत्री व विशिष्ट अतिथि


वाराणसीनगरम्, १३ जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः उक्तवान् यत् किमपि अनुसन्धानं विकासार्थमेव क्रियते। तस्य पृष्ठे लोककल्याणस्य भावना निहिता भवति। अन्ततः तस्य उद्देश्यं राष्ट्रस्य दृढीकरणं सशक्तीकरणं च भवति। द्विदिवसीयस्य वाराणसी-प्रवासस्य अन्तिमदिने शनिवासरे मुख्यमन्त्री काशी-हिन्दू-विश्वविद्यालयेन वैदिक-विज्ञान-केन्द्रेण च संयुक्तरूपेण आयोजितस्य विज्ञान-भारत्याः सप्तम-राष्ट्रीय-अधिवेशनस्य उद्घाटन-सत्रम् सम्बोधयन् आसीत्।

मुख्यमन्त्री योगी-आदित्यनाथः दीप-प्रज्वलनेन अधिवेशनस्य उद्घाटनं कृत्वा विज्ञान-भारत्याः वार्षिक-प्रतिवेदनस्य विमोचनमपि अकरोत्। अस्मिन् अवसरे सः अवदत् यत् एतत् काशी-हिन्दू-विश्वविद्यालयम् अस्ति। अस्य स्थापनायाः मूल-उद्देश्यं काशीं ज्ञान-विज्ञानयोः तादृशीं धारां प्रति पुनः प्रतिष्ठापयितुम् आसीत्, यस्याः कृते काशी प्राचीनकालात् प्रसिद्धा आसीत्। मुख्यमन्त्री उक्तवान् यत् यदा वयं विज्ञानस्य विषये वदामः तदा तस्य परिणामानां प्रभावानां च ज्ञानमपि आवश्यकम्। आधुनिक-विज्ञानस्य इतिहासः प्रायः चतुःशत-पञ्चशत-वर्ष-पुरातनः अस्ति। ये देशाः विज्ञाने प्रौद्योगिक्यां च प्रभुत्वं स्थापितवन्तः, तेषामेव विश्वे वर्चस्वं स्थापितम्।

सः अवदत् यत् ज्ञानं यतः कुतश्चित् लभ्यते तस्य स्वागतं करणीयम्। किन्तु केवलं तस्य ग्रहणमेव पर्याप्तं न भवति, अपितु तस्य मूलभावस्य उद्देश्यस्य च सम्यक् अवगमनमपि आवश्यकम्। अद्य सम्पूर्णे विश्वे स्पर्धा सङ्घर्षश्च अस्यैव विषयस्य कारणेन दृश्यते। यदा वयं भारतस्य चर्चा कुर्मः तदा तस्य प्रगतिः विकासश्च अपि समक्षम् आगच्छतः। यदि वयं द्विसहस्र-वर्षपूर्वकालात् आरभ्य पञ्चदश-षोडश-शताब्दी-पर्यन्तं भारतस्य वैभवं पश्येम, तर्हि ज्ञायते यत् वैश्विक-अर्थव्यवस्थायां भारतस्य भागः प्रायः पञ्चचत्वारिंशत्-प्रतिशतम् आसीत्। प्रायः चतुःशत-वर्षपूर्वमपि, यदा देशः विदेशी-आक्रान्तृणां कठिन-कालं अनुभवति स्म, तदा वैश्विक-अर्थव्यवस्थायां भारतस्य भागः चतुर्विंशति-पञ्चविंशति-प्रतिशतपर्यन्तम् आसीत्। १९४७ तमे वर्षे स्वातन्त्र्य-प्राप्तेः समये सः भागः केवलं १.५–२ प्रतिशतपर्यन्तं न्यूनः अभवत्।

द्विसहस्र-वर्षपूर्वं वैश्विक-अर्थव्यवस्थायां भारतस्य एतादृशी महती सहभागिता कुतः आसीत्? अस्य कारणम् आसीत् यत् भारतदेश: नवान्वेषणं करोति स्म। कृषकाः स्वेषु क्षेत्रेषु नूतन-प्रयोगान् कुर्वन्ति स्म। ते प्राकृतिक-पद्धत्या भूमेः उर्वरतां संरक्षितुं प्रयतन्ते स्म। कृषि: अस्माकं कृते केवलं जीविकोपार्जनस्य साधनं नासीत्, अपितु आरोग्यस्य माध्यममपि आसीत्। सा देशं समाजं च सम्बद्धुं कार्यं करोति स्म। अद्य वयं अन्नदाता-कृषकान् उर्वरकेषु आश्रितान् भवितुं विवशान् कृतवन्तः। तेषां मनसि एषः विश्वासः स्थापितः यत् रासायनिक-उर्वरक-विना कृषि: सम्भवा नास्ति। वयं विस्मृतवन्तः यत् अस्माकं कृषि-व्यवस्थायां पशुपालनमपि अभिन्नम् अङ्गम् आसीत्।

अस्य पूर्वं काशी-हिन्दू-विश्वविद्यालयस्य कुलपतिः प्रोफेसर-अजितकुमार-चतुर्वेदी मुख्यमन्त्रिणं अङ्गवस्त्रेण सम्मानितवान्। उल्लेखनीयम् अस्ति यत् अधिवेशनस्य उद्घाटन-सत्रे विज्ञान-प्रौद्योगिकी-नवान्वेषण-राष्ट्रीय-विकास-विषयेषु विचार-विमर्शः भविष्यति। अस्मिन् द्विदिवसीये राष्ट्रीय-अधिवेशने देश-विदेशेभ्यः प्रायः १२०० प्रतिनिधयः सहभागिनः भवन्ति। एतेषु विज्ञान-भारत्याः सदस्याः, वैज्ञानिकाः, अनुसन्धानकर्तारः, शिक्षाविदः, नीतिनिर्मातारः, उद्योग-जगतः प्रतिनिधयः तथा विविध-विषय-विशेषज्ञाश्च सम्मिलिताः सन्ति।

अधिवेशने देशस्य प्रमुख-संस्थानानां सर्वकारीय-सङ्गठनानां च प्रतिष्ठिताः वक्तारः चिन्तकाश्च स्वविचारान् प्रस्तोष्यन्ति। ‘वन-हेल्थ्’ विषयक-सत्रस्य नेतृत्वं राष्ट्रिय-चिकित्सा-आयोगस्य अध्यक्षः डॉ. बी. एन. गङ्गाधरः करिष्यति, यस्मिन् शिक्षण-स्वास्थ्य-अनुसन्धान-संस्थानैः सम्बद्धाः विशिष्ट-विशेषज्ञाः सहभागं करिष्यन्ति। विज्ञान-भारत्याः राष्ट्रिय-सङ्गठन-मन्त्री डॉ.शिवकुमार-शर्मा इत्यस्य अनुसारम् अधिवेशनस्य उद्देश्यं समसामयिक-विज्ञान-सामाजिक-समस्याया: विषये सार्थक-विमर्शं कृत्वा वैज्ञानिक-दृष्ट्या सशक्तस्य आत्मनिर्भरस्य च भारतस्य कृते कार्ययोजनां निर्मातुम् अस्ति।

अस्य वर्षस्य अधिवेशने ‘वन-हेल्थ’, ‘विकसित-भारताय नेट्-जीरो’, कृत्रिम-बुद्धिमत्ता तथा नैतिकता इत्यादिषु राष्ट्रिय-महत्त्वयुक्तेषु विषयेषु विशेष-चर्चा भविष्यति। ‘विकसित-भारताय नेट्-जीरो’ विषयक-सत्रस्य नेतृत्वं मध्यप्रदेश-सर्वकारस्य ऊर्जा-नवीन-नवीकरणीय-ऊर्जा-विभागस्य प्रमुख-सचिवः मनु-श्रीवास्तवः करिष्यति। अस्मिन् सत्रे सतत-विकासस्य ऊर्जा-संक्रमणस्य च विविध-आयामेषु चर्चा भविष्यति। उद्घाटन-सत्रे मुख्यमन्त्रिणा सह राष्ट्रीय स्वयंसेवक संघ-स्य अखिल-भारतीय-प्रचार-प्रमुखः सुनील-आंबेकर: तथा अन्ये गणमान्याः अपि उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan