मुख्यमंत्री योगी आदित्यनाथः काशी हिंदू विश्वविद्यालये निर्माणाधीनस्य ‘नेशनल सेंटर फॉर एजिंग’ इत्यस्याकरोत् निरीक्षणम्
150 कोटिरुप्यकाणां व्ययेन निर्मीयते200शयिकानां सप्ताट्टात्मकः अत्याधुनिकःचिकित्सालयः , वृद्धेभ्यो विशेषेण स्वास्थ्य सुविधाः वाराणसी, 13 जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः स्वस्य द्विदिवसीयस्य वाराणसीप्रवासस्य अन्तिमदिने श
'नेशनल सेंटर फॉर एजिंग'  भवन का निरीक्षण करते मुख्यमंत्री,साथ में कार्यदायी संस्था के अफसर


'नेशनल सेंटर फॉर एजिंग'  भवन का निरीक्षण करते मुख्यमंत्री,साथ में कार्यदायी संस्था के अफसर


150 कोटिरुप्यकाणां व्ययेन निर्मीयते200शयिकानां सप्ताट्टात्मकः अत्याधुनिकःचिकित्सालयः , वृद्धेभ्यो विशेषेण स्वास्थ्य सुविधाः

वाराणसी, 13 जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः स्वस्य द्विदिवसीयस्य वाराणसीप्रवासस्य अन्तिमदिने शनिवासरे काशी हिन्दू विश्वविद्यालयस्य परिसरे स्थितस्य निर्माणाधीनस्य अत्याधुनिकस्य नेशनल सेंटर फॉर एजिंग इत्यस्य स्थलीयनिरीक्षणं कृतवान्। निरीक्षणस्य समये मुख्यमन्त्री भवननिर्माणकार्यस्य प्रगतिं परीक्षितवान् तथा कार्यदायिसंस्थायाः अधिकारिभ्यः समयबद्धरीत्या उच्चगुणवत्तया सह परियोजनां पूर्णं कर्तुं निर्देशान् प्रदत्तवान्।

मुख्यमन्त्री अवदत् यत् निर्माणकार्ये गुणवत्तायाः विषये कस्यापि प्रकारस्य समझौतः न भवितव्यः। तेन बीएचयू प्रशासनस्य अधिकारिभ्यः अपि परियोजनायाः नियमितनिगराणी सुनिश्चितं कर्तुं निर्देशाः प्रदत्ताः, येन निर्धारितकालसीमायाः अन्तर्गतं केन्द्रस्य निर्माणकार्यं पूर्णं भवेत्।

गौरविषयः अस्ति यत् बीएचयू चिकित्सा विज्ञान संस्थानस्य परिसरे वृद्धजनानां स्वास्थ्यसम्बद्धानां आवश्यकतानां दृष्ट्या नेशनल सेंटर फॉर एजिंग इत्यस्य निर्माणं क्रियते। प्रायः १५० कोटि रुप्यकाणां व्ययेन निर्मीयमाणे अस्मिन् सप्ततलयुक्ते भवने २०० शय्यानां व्यवस्था भविष्यति। एतत् केन्द्रं देशस्य तृतीयं तथा उत्तरभारतस्य प्रमुखं जराचिकित्सा संस्थानं भविष्यति। वर्तमानकाले अस्य निर्माणकार्यं अन्तिमचरणं प्राप्तम् अस्ति।

अस्मिन् केन्द्रे वृद्धरोगिभ्यः बहुविशेषता जराचिकित्सा बाह्यरोगविभागः, स्मृतिकेन्द्रम्, सन्धिवात चिकित्साकेन्द्रम् सहितानि अनेकानि विशेषचिकित्सासुविधानि उपलब्धाः भविष्यन्ति। एतदतिरिक्तं मॉड्यूलर शल्यकक्षः, अत्याधुनिकाः परीक्षण तथा रेडियोलॉजी सेवाः, पुनर्वासकेन्द्रम्, दिवासेवा सुविधा, सघनचिकित्साकक्षः तथा निजी कक्षाः अपि स्थाप्यन्ते।

नेशनल सेंटर फॉर एजिंग इदं केवलं उपचारपर्यन्तं सीमितं न भविष्यति, अपितु जराचिकित्साक्षेत्रे क्षमताविकासं, मानवसंसाधनविकासं तथा अनुसन्धानम् अपि प्रोत्साहयिष्यति। अत्र वरिष्ठचिकित्सकानां तथा वरिष्ठनिवासचिकित्सकानां सङ्ख्यायां वृद्धेः सह एमडी जराचिकित्सा स्नातकोत्तरस्थानानां अपि विस्तारः क्रियिष्यते। केन्द्रे वृद्धावस्थासम्बद्धानां रोगाणां समस्याना च विषये विशेषानुसन्धानानि क्रियिष्यन्ते तथा वृद्धजनानां उपचारस्य परिचर्यायाः कृते मानकनिर्देशाः विकसिताः भविष्यन्ति। तथा च जराचिकित्साविभागस्य माध्यमेन चिकित्सकेभ्यः परिचारिकाभ्यः स्वास्थ्यकर्मिभ्यश्च वृद्धजनानां विशेषपरिचर्यासम्बद्धं प्रशिक्षणम् अपि प्रदास्यते।

निरीक्षणस्य समये मुख्यमन्त्री एतां परियोजनां प्रदेशस्य वृद्धजनसंख्यायाः कृते अत्यन्तं महत्त्वपूर्णाम् उक्तवान् तथा च तां शीघ्रं सम्पूर्णां कृत्वा जनसेवार्थं समर्पयितुं बलं दत्तवान्।

Hindusthan Samachar / Dheeraj Maithani