द्विगुणितइंजन सरकारेण सह चल्यताम् आजमगढ़ं वयं सुरक्षितं समृद्धं च कुर्मः : मुख्यमंत्री योगी
मुख्यमंत्री योगी 955 कोटिरुप्यकाणां राशिना 39 विकास परियोजनानां लोकार्पणं शिलान्यासं चाकरोत् आजमगढ़म्, 13 जूनमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे महाराज सुहेलदेव विश्वविद्यालये आजमगढे पञ्चनवतिशताधिक नवशत कोटिरूप्यक
आजमगढ़ में सभा को संबोधित करते मुख्यमंत्री


मुख्यमंत्री योगी 955 कोटिरुप्यकाणां राशिना 39 विकास परियोजनानां लोकार्पणं शिलान्यासं चाकरोत्

आजमगढ़म्, 13 जूनमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे महाराज सुहेलदेव विश्वविद्यालये आजमगढे पञ्चनवतिशताधिक नवशत कोटिरूप्यकव्ययेन नवत्रिंशत् विकासपरियोजनानां लोकार्पणं शिलान्यासं च अकरोत्। मुख्यमन्त्री मन्त्रिमण्डलमन्त्री ओमप्रकाश राजभरः च प्रदर्शनीम् अपि निरीक्षितवन्तौ।

अस्मिन् अवसरे मुख्यमन्त्री आजमगढनिवासिभ्यः उक्तवान् यत् वर्तमानस्य सुधाराय उज्ज्वलभविष्यस्य निर्माणाय च द्वियन्त्रसर्वकारेण सह द्विगुणवेगेन अग्रे गमनस्य सिद्धता क्रियताम्। वयम् आजमगढं सुरक्षितं समृद्धं च करिष्यामः। योगी आदित्यनाथः उक्तवान् यत् द्वियन्त्रसर्वकारस्य कार्यकाले अयोध्यायां भव्य राममन्दिरस्य निर्माणम् अभवत्। समाजवादीपक्षः काँग्रेसदलम् च एतत् कार्यं कर्तुं न शक्नुतः।

मुख्यमन्त्री समाजवादीपक्षस्य आलोचनां कुर्वन् उक्तवान् यत् ये स्वपूर्वजानां सम्मानं कर्तुं न शक्नुवन्ति, स्वीयायाः आस्थायाः सम्मानं न कुर्वन्ति, देवदेवीनां सम्मानं न कुर्वन्ति, तर्हि तैः सह सम्बद्ध्य किं फलम् अवाप्स्यथ। एते जनाः किमपि कर्तुं न शक्नुवन्ति, विकासं कर्तुं न शक्नुवन्ति, दरिद्रजनानां कल्याणं कर्तुं न शक्नुवन्ति, युवभ्यः रोजगारं दातुं न शक्नुवन्ति, तर्हि यूयं तान् किमर्थं अनुसरथ। अतः द्वियन्त्रसर्वकारेण सह द्विगुणवेगेन अग्रे गमनस्य सिद्धता कर्तव्या। योगी उक्तवान् यत् अत्र लोकसभायां विधानसभायां च भारतीयजनतापक्षस्य विजयः न अभवत् तथापि आजमगढं विकासात् वञ्चितं न कृतम्।

महाराज सुहेलदेवस्य स्मृतीः प्रणमन् योगी आदित्यनाथः उक्तवान् यत् आजमगढस्य इतिहासः अत्यन्तं गौरवशाली अस्ति। एषः साधनायाः केन्द्रबिन्दुः आसीत्। स्वातन्त्र्य आन्दोलनकाले अत्रत्यैः जनैः अत्यधिकं योगदानं प्रदत्तम्। सः जनपदः स्वीयपरिचयस्य कृते दीर्घकालं यावत् प्रतीक्षारतः आसीत्। मुख्यमन्त्री उक्तवान् यत् अधुना अस्माकं भारतदेशः नवभारतस्य रूपेण विश्वे स्वस्य सामर्थ्यं प्रदर्शयति। २०१४ तमे वर्षात् पूर्वं शत्रुदेशाः भारतं भयप्रदर्शनं कुर्वन्ति स्म। देशः नक्सलवादेन पीडितः आसीत्। अद्य मोदी महोदयस्य नेतृत्वे नवभारतस्य दर्शनं अस्माकं पीढी करोति।

तेन उक्तम् यत् महाराज सुहेलदेवः विदेशीय आक्रमणकारिणः विनाशितवान्। यदा वयम् परस्परं विभक्ताः अभवाम तदा तस्य परिणामः सर्वेषां सम्मुखे आगतः। महाराज सुहेलदेवस्य अनन्तरं मुहम्मद गोरी इत्यस्य आक्रमणम् अभवत्। पृथ्वीराज चौहानः सप्तदशवारं गोरीं पराजितवान्। बहराइच क्षेत्रे महाराज सुहेलदेवस्य नाम्ना न तु आक्रान्ता गाजी इत्यस्य नाम्ना आयोजनं भवति स्म। अद्य तत्र महाराज सुहेलदेवस्य भव्य स्मारकं निर्मितम् अस्ति। यावती गतिः तावती प्रगतिः।

मुख्यमन्त्री उक्तवान् यत् निरहुआ भोजपुरीभाषायाः माधुर्यं विश्वे प्रसारयति। एषा रांगेय राघवस्य भूमिः अस्ति। एषा अयोध्यासिंह उपाध्याय हरिऔधस्य भूमिः अस्ति। सर्वासु आतङ्कवादी गतिविधिषु संजरपुरस्य भूमेः नाम आगच्छति स्म। दरिद्रजनानां कृते न शौचालयस्य व्यवस्था आसीत्, न गृहस्य, न राशनस्य व्यवस्था आसीत्। यूनां जीविकासु अनियमितता भवति स्म। कन्यानां कृते न काचित् योजना आसीत्, न शिक्षा, न सुरक्षा व्यवस्था आसीत्। निराश्रितमहिलानां कृते अपि काचित् व्यवस्था न आसीत्।

Hindusthan Samachar / Dheeraj Maithani