वीरता-विवेकौ जीवनस्य मार्गदर्शकौ कुरुत, इति युव-अधिकारिभ्यः राष्ट्रपतिः
देहरादूननगरम्, १३ जूनमासः (हि.स.)। भारतगणराज्यस्य राष्ट्रपतिः तथा भारतीय-सशस्त्र-बलानां सर्वोच्च-सेनानायिका द्रौपदीमुर्मू युव-अधिकारिणः आहूतवती यत् ते सेवां सर्वोच्चं कर्तव्यं मत्वा राष्ट्रस्य सार्वभौमत्वस्य, एकतायाः अखण्डतायाश्च रक्षणार्थं सदा सज्
वीरता-विवेकौ जीवनस्य मार्गदर्शकौ कुरुत, इति युव-अधिकारिभ्यः राष्ट्रपतिः


देहरादूननगरम्, १३ जूनमासः (हि.स.)। भारतगणराज्यस्य राष्ट्रपतिः तथा भारतीय-सशस्त्र-बलानां सर्वोच्च-सेनानायिका द्रौपदीमुर्मू युव-अधिकारिणः आहूतवती यत् ते सेवां सर्वोच्चं कर्तव्यं मत्वा राष्ट्रस्य सार्वभौमत्वस्य, एकतायाः अखण्डतायाश्च रक्षणार्थं सदा सज्जाः तिष्ठेयुः। तया उक्तं यत् शीघ्रं परिवर्तमानानां सुरक्षासमस्याः, प्रौद्योगिकी-प्रगतिः तथा जटिल-वैश्विक-परिस्थितयः दृष्ट्वा भारतीय-सेनायाः भविष्योपयुक्ता अनुकूलनशीला च भवितव्या।

शनिवासरे भारतीयसेना-संस्थायाः चेटवुड्-ड्रिल-स्क्वायर-इत्यत्र आयोजितस्य १५८तम-नियमित-पाठ्यक्रमस्य १४१तम-प्राविधिक-स्नातक-पाठ्यक्रमस्य च दीक्षान्त-सैन्य-संचलनस्य निरीक्षणं कुर्वती राष्ट्रपतिः ४८१ भारतीय-जेन्टलमैन्-कैडेट-इत्यादीनां सैन्य-अधिकारित्व-प्राप्त्यर्थं शुभकामनाः अयच्छत्। सा अवदत् यत् देशस्य अत्यन्त-कठिन-प्रशिक्षण-कार्यक्रमेषु अन्यतमस्य सफलतया समापनं महती उपलब्धिः अस्ति। युव-अधिकारिणां शौर्यं विवेकश्च तेषां महत्तमा शक्तिः भविष्यति।

पदयात्रायां सहभागीभूतानां नव-महिला-कैडेट-इत्यादीनां विशेषोल्लेखं कुर्वती राष्ट्रपतिः एतत् आई.एम.ए.-इतिहासस्य ऐतिहासिकं क्षणम् इति वर्णितवती। तया उक्तं यत् एषः केवलं भारतीय-रक्षा-बलानां इतिहासे महत्त्वपूर्णः मील-पाषाणः नास्ति, अपितु महिला-नेतृत्व-विकासस्य दिशि भारतस्य प्रगतये प्रेरणादायकमुदाहरणमपि अस्ति। अग्रिमेषु वर्षेषु अधिकाधिकाः महिलाः आई.एम.ए.-संस्थया सम्बद्धाः भूत्वा सैन्य-नेतृत्वे स्वकीयां भूमिकां निर्वहिष्यन्ति इति सा विश्वासं व्यक्तवती।

राष्ट्रपतिः अवदत् यत् भारतीय-सैन्य-अकादमी सम्मानस्य, शौर्यस्य निःस्वार्थ-राष्ट्रसेवायाश्च प्रतीकमस्ति। एषा प्रतिष्ठिता संस्था अनेकान् सैन्य-नेतॄन् निर्मितवती, येषां नेतृत्वेन चुनौतीपूर्ण-परिस्थितिषु देशस्य सीमाः संरक्षिताः तथा भारतस्य कीर्तिः उन्नता कृता। तया अकादम्याः कमाण्डेण्टस्य, प्रशिक्षकाणां समग्र-कर्मचारिणां च प्रयासाः प्रशंसिताः।

मित्र-देशेभ्यः आगतान् विदेशी-कैडेट-इय्यादीन् अपि अभिनन्दन्ती राष्ट्रपतिः अवदत् यत् तेषां देशैः उच्चतम-स्तरीय-सैन्य-प्रशिक्षणस्य दायित्वं भारताय समर्पितम्। ते स्वस्व-देशानां सेनासु उत्कृष्ट-सेवां प्रदाय सम्मानं प्राप्स्यन्ति इति तया विश्वासः व्यक्तीकृतः। मित्र-देशानां कैडेट-इत्यादीनां आई.एम.ए.-संस्थायां प्रशिक्षण-प्राप्तिः विश्वस्य देशैः सह भारतस्य मैत्री-सहयोग-शान्तिपूर्ण-सम्बन्धानां दृढीकरणे तस्य प्रतिबद्धतां दर्शयति इति सा अवदत्।

तया उक्तं यत् आई.एम.ए.-संस्थायां विकसितः पारस्परिक-विश्वासः, अवबोधः, व्यावसायिक-सम्बन्धाश्च देशानां मध्ये रक्षा-सहयोगस्य सुदृढीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। अत्र प्राप्त-प्रशिक्षणस्य मूल्यबोधस्य च आधारेण विदेशी-कैडेट क्षेत्रीय-स्थैर्ये वैश्विक-शान्तौ च योगदानं दास्यन्ति।

युव-अधिकारिणः सम्बोधयन्ती राष्ट्रपतिः अवदत् यत् तेषां यात्रा अनुशासनस्य, त्यागस्य धैर्यस्य च यात्रा आसीत्। सैन्य-नेतृत्वं केवलम् आदेश-प्रदानस्य नाम नास्ति, अपितु चरित्रस्य, करुणायाः प्रतिबद्धतायाश्च प्रतीकमस्ति। सेनायाः अधिकारिरूपेण तैः स्वसैनिकानां नेतृत्वं, मार्गदर्शनं पालनपोषणं च कर्तव्यम्। स्वाचारणेन उदाहरणं प्रस्तोतव्यं, विश्वासः जनयितव्यः, दल-भावना समर्पणं च प्रोत्साहनीयम्।

सा अवदत् यत् परिचालन-दक्षतायाः सैनिक-कल्याणस्य च मध्ये सन्तुलनं स्थापयित्वैव कस्याश्चित् विभागस्य युद्ध-क्षमता सुदृढा भवितुमर्हति। युव-अधिकारिभ्यः अपेक्षा अस्ति यत् ते अग्रपङ्क्तौ स्थित्वा नेतृत्वं कुर्वन्तु, स्वसैनिकानां हितं पश्यन्तु तथा भारतीय-सशस्त्र-बलानां गौरवशालि-परम्पराः अग्रे नयन्तु।

अन्ते राष्ट्रपतिः अवदत् यत् आई.एम.ए.-संस्थायाः आदर्श-वाक्यं “वीरता-विवेकौ” प्रत्येकं अधिकारिणः जीवनस्य मार्गदर्शकौ भवेताम्। सफलतायां विनम्रता, विषम-परिस्थितिषु धैर्यं च धारयन्तः ते भारतीय-सेनायाः राष्ट्रस्य च प्रतिष्ठां नूतन-उच्चताभ्यः नेष्यन्ति। सा सर्वान् नव-नियुक्त-अधिकारिणः शुभाशिषा अभिनन्द्य उक्तवती यत् ते गौरवेण, उद्देश्येन राष्ट्रभक्त्या च सदा अग्रे गच्छन्तु।

Hindusthan Samachar / अंशु गुप्ता