Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 13 जूनमासः (हि.स.)।
जनपदे आपदा प्रबन्धनव्यवस्थां अधिकं सुदृढां कर्तुं उद्देश्येन जिलाप्रशासनेन पञ्चदिवसीयस्य अन्वेषण उद्धार प्राथमिकोपचार तथा जलउद्धारप्रशिक्षणकार्यक्रमस्य शनिवासरे शुभारम्भः कृतः। एषः प्रशिक्षणकार्यक्रमः जिला आपदा प्रबन्धन प्राधिकरण तथा राष्ट्रीय आपदा मोचन बलस्य संयुक्ततत्त्वावधाने आयोजितः भवति।
जिला आपदा प्रबन्धनाधिकारी मीरा रावत अवदत् यत् अस्मिन् प्रशिक्षणकार्यक्रमे आपदामित्राणां ग्रामीणस्वयंसेवकानां च आपदा प्रबन्धनम्, अन्वेषणम् उद्धारः, बाढप्रबन्धनम्, जलजनिताभिः आपदाभिः निवारणम् तथा जलउद्धारस्य सैद्धान्तिकी व्यवहारिकी च सूचना प्रदास्यते।
तया उक्तं यत् प्रशिक्षणस्य मुख्यः उद्देश्यः स्वयंसेवकानां क्षमतायाः विकासः अस्ति, येन केनापि आपदाकाले ते प्रभावपूर्णरीत्या राहत एवं उद्धारकार्येषु सहयोगं कर्तुं शक्नुयुः। सह एव प्रतिभागिभ्यः जनपदस्तरे सञ्चालितस्य आपदा प्रबन्धनं नियंत्रणकक्षमाध्यमेन शीघ्र सूचना उपलभ्
Hindusthan Samachar / Dheeraj Maithani