Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 13 जूनमासः (हि.स.)।
आगामिनि सप्ताहान्ते तथा सोमवती अमावास्या स्नानपर्वणि हरिद्वारे सम्भावितां विशालां श्रद्धालुजनसमूहस्य भीडां दृष्ट्वा वरिष्ठपुलिसाधीक्षकः नवनीत सिंहः चत्वारिंशत्तम पीएसी वाहिन्यां तथा पुलिस लाइन रोशनाबादे प्रशिक्षणं प्राप्नुवन्तः प्रायः चतुर्शतपञ्चाशत् रिक्रूट आरक्षिणः विशेषमार्गदर्शनं प्रदत्तवान्।
मार्गदर्शनस्य समये वरिष्ठपुलिसाधीक्षकः नवनीत सिंहः अवदत् यत् प्रशिक्षणकालस्य अन्तर्गतं हरिद्वारे नियुक्ता एषा प्रथमा पर्वकर्तव्यसेवा रिक्रूट आरक्षिणां कृते महत्त्वपूर्णः व्यवहारिकानुभवः अस्ति। तेन जवानान् निर्देशितवान् यत् आगच्छतां श्रद्धालूनां सुरक्षा, सुविधा तथा साहाय्यं सर्वोच्चप्राथमिकतया स्वीकृत्य वरिष्ठाधिकारिणां निर्देशान् पूर्णनिष्ठया अनुशासनेन च पालनं कुर्वन्तु।
वरिष्ठपुलिसाधीक्षकः अवदत् यत् पुलिसस्य मुख्यं दायित्वं केवलं विधिव्यवस्थायाः संरक्षणमेव न, अपितु श्रद्धालुभिः सह सौम्यविनम्रव्यवहारं कुर्वन् तेषां सर्वसम्भवं साहाय्यं कर्तुमपि अस्ति। तेन सर्वान् जवानान् जनसंकुलक्षेत्रेषु, गङ्गातटेषु, वाहनस्थापनस्थलेषु तथा प्रमुखमार्गेषु विशेषसतर्कतां धारयितुं निर्देशान् प्रदत्तवान्।
मार्गदर्शनस्य समये अधिकारिभिः रिक्रूट आरक्षिभ्यः जनसमूहनियन्त्रणस्य रणनीतिषु, पर्वकर्तव्यसेवाकाले अनुसरणीया कार्यपद्धतिः तथा आपदा आपत्कालीनपरिस्थितिषु त्वरितप्रतिक्रियायाः सम्बन्धे महत्त्वपूर्णा सूचना अपि प्रदत्ता।
हरिद्वार पुलिसेन स्पष्टं कृतं यत् आगामि सोमवती अमावास्या स्नानपर्व शान्तिपूर्णेन, सुरक्षितेन तथा सुव्यवस्थितेन प्रकारेण सम्पन्नं कर्तुं सर्वाः आवश्यकाः सिद्धताः पूर्णाः कृताः सन्ति। अस्मिन् अवसरे पुलिस अधीक्षक नगरः, क्षेत्राधिकारी सदरः तथा अन्ये पुलिसाधिकारिणः अपि उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani