Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, १४ जूनमासः (हि.स.)। बिहार-राज्यस्य पूर्व-स्वास्थ्य-मन्त्री, पूर्व-भाजपा-प्रदेशाध्यक्षः तथा सिवान-सदर-विधानसभाक्षेत्रस्य विधायकः मंगल-पाण्डेयः रविवासरे विख्यातं शक्तिपीठं मां विंध्यवासिनी-धामं प्राप्तवान्। तत्र सः स्वपरिवार-सहितं विधि-विधानेन मातुः दर्शन-पूजनं कृत्वा देश-प्रदेश-समाजानां सुख-समृद्धेः तथा कल्याणस्य कृते प्रार्थनां कृतवान्।
मन्दिर-प्रवेशे तीर्थ-पुरोहितैः वैदिक-मन्त्रोच्चारणपूर्वकं तस्य पूजन-अर्चनं सम्पन्नम्। मंगल-पाण्डेयेन मां विंध्यवासिनी-मातुः चरणयोः श्रद्धां समर्प्य जनकल्याणाय, सामाजिक-सौहार्दाय तथा राष्ट्र-उन्नत्यै विशेषा प्रार्थना कृता। तेन विंध्यधामस्य धार्मिक-गरिमा तथा आध्यात्मिक-महत्त्वं च प्रशंसितम्।
दर्शन-पूजनानन्तरं तेन उक्तं यत् मां विंध्यवासिनी-धामः सम्पूर्ण-देशस्य श्रद्धालूनां आस्थायाः प्रमुखं केन्द्रम् अस्ति। अत्र आगत्य मनसि अद्भुतः शान्तिः तथा नूतना ऊर्जा अनुभूयते इति तेन उक्तम्। विंध्यधाम्न: दिव्यता तथा धार्मिक-वातावरणं श्रद्धालुभ्यः विशेषां आध्यात्मिक-अनुभूतिं प्रददाति इति अपि सः अवदत्।
पूर्व-मन्त्रिणः आगमनं दृष्ट्वा मन्दिर-परिसरे सुरक्षा-दर्शन-व्यवस्थायाः विशेष-प्रबन्धाः कृताः आसन्। दर्शन-काले सः श्रद्धालु-जन-समूहस्य मध्ये सहजतया मातुः आशीर्वादं प्राप्तवान् तथा विंध्यधाम-व्यवस्थायाः प्रशंसां कृतवान्।
/ अंशु गुप्ता