ओमानदेशे भारतीय-नागरिकस्य निधनम्, पार्थिव-शरीरस्य स्वदेशम् आनयनार्थं दूतावासः प्रयत्नशीलः
नवदेहली, १४ जूनमासः (हि.स.)। ओमानदेशस्थितेन भारतीय-दूतावासेन भारतीय-नागरिकस्य निशान्त-उर्थनाथन्-महोदयस्य निधनानन्तरं तस्य पार्थिव-शरीरं यथाशीघ्रं भारतं प्रत्यानीयते इति उद्देश्येन प्रयत्नाः तीव्रीकृताः सन्ति। ओमानदेशस्थितेन भारतीय-दूतावासेन ‘एक्स’
ओमानदेशे भारतीय-नागरिकस्य निधनम्, पार्थिव-शरीरस्य स्वदेशम् आनयनार्थं दूतावासः प्रयत्नशीलः


नवदेहली, १४ जूनमासः (हि.स.)। ओमानदेशस्थितेन भारतीय-दूतावासेन भारतीय-नागरिकस्य निशान्त-उर्थनाथन्-महोदयस्य निधनानन्तरं तस्य पार्थिव-शरीरं यथाशीघ्रं भारतं प्रत्यानीयते इति उद्देश्येन प्रयत्नाः तीव्रीकृताः सन्ति।

ओमानदेशस्थितेन भारतीय-दूतावासेन ‘एक्स’ इति सामाजिक-माध्यमे प्रकाशिते सन्देशे उक्तं यत्, “दुर्भाग्यवशात् वाणिज्यिक-पोते चिकित्सकीय-कारणेन प्राणान् त्यक्तवन्तः भारतीय-नागरिकः निशान्त-उर्थनाथन् इत्यस्य परिवारजनैः, पोतस्य कर्मिभिः तथा सम्बन्धित-अधिकारिभिः सह दूतावासः निरन्तरं सम्पर्के वर्तते। तस्य पार्थिव-शरीरस्य यथाशीघ्रं पोतात् अवतारणाय तथा स्वदेशं प्रत्यानेतुं प्रक्रियायाः सुकरतार्थं प्रयत्नाः क्रियमाणाः सन्ति।”

दूतावासेन उक्तं यत् अस्मिन् दुःखद-काले शोक-सन्तप्त-परिवारं प्रति तेषां गभीराः संवेदनाः सन्ति।

Hindusthan Samachar / अंशु गुप्ता