Enter your Email Address to subscribe to our newsletters

किशनगंजः, 14 जूनमासः (हि.स.)।प्रधानमन्त्रिणो नरेंद्र मोदिनो नेतृत्वे केन्द्र सर्वकारस्य द्वादशवर्षपूर्तेः अवसरस्य निमित्तं रविवासरे धर्मगंज स्थिते भारतीय जनता पार्टी कार्यालये आयोजितां पत्रकार वार्तां सम्बोधयन् राजस्व तथा भूमिसुधारः मन्त्री डॉ दिलीप कुमार जायसवालः उक्तवान् यत् गत द्वादश वर्षेषु राष्ट्रे विकासस्य सुशासनस्य जनकल्याणस्य च नवीनः इतिहासः निर्मितः अस्ति।
तेन उक्तं यत् मोदी सर्वकारस्य महान् शक्ति जनतायाः अखण्ड विश्वासः तथा सेवाभावः अस्ति, यस्य बलात् राष्ट्रम् अधुना आत्मनिर्भर विकसित भारतस्य दिशि तीव्रतया अग्रे गच्छति। मन्त्रिणा उक्तं यत् वर्षेषु २०१४, २०१९ तथा २०२४ मध्ये निरन्तरं जनतया प्रधानमन्त्रिणो नरेंद्र मोदिनो नेतृत्वे विश्वासः प्रकटितः अस्ति। सरकारेण सर्वेषां सहयोगः सर्वेषां विकासः सर्वेषां विश्वासः सर्वेषां प्रयासः इति मन्त्रं व्यवहारभूमौ स्थापित्य दरिद्राणां कृषकाणां महिलानां यूनां वञ्चितवर्गस्य च उत्थानाय ऐतिहासिकानि कार्याणि कृतानि। तेन दावा कृतः यत् गतवर्षेषु कोटिशः जनाः दरिद्रतारेखातः बहिः आगताः तथा प्रत्यक्ष लाभ हस्तान्तरण माध्यमेन शासकीय योजनानां लाभः प्रत्यक्षरूपेण लाभग्राहिभ्यः प्राप्तः।
डॉ जायसवालः उक्तवान् यत् प्रधानमन्त्री जनधन योजना, आयुष्मान भारत, उज्ज्वला योजना, प्रधानमन्त्री आवास योजना, जल जीवन अभियान तथा स्वच्छ भारत अभियान इत्यादिभिः योजनाभिः सामान्य जनानां जीवने सकारात्मकः परिवर्तनः आगतः अस्ति।
प्रधानमन्त्रिकृषकसम्माननिधेः अन्तर्गतं कृषकाणां लेखासु प्रत्यक्षरूपेण आर्थिक सहायता प्रदीयते। महिलानाम् आत्मनिर्भरता सम्पादयितुं लखपति दीदी, सुकन्या समृद्धि तथा अन्याभिः योजनाभिः व्यापकः लाभः प्राप्तः।
विकास कार्याणां उल्लेखं कुर्वन् तेन उक्तं यत् गत द्वादश वर्षेषु राष्ट्रिय राजमार्गाणां विस्तारः, रेलमार्गस्य आधुनिकीकरणम्, वन्दे भारत रेलयानानां सञ्चालनम्, मेट्रो संजालस्य विस्तारः तथा नवीन विमानस्थानकानां निर्माणम् अभूतपूर्वाः उपलब्धयः सन्ति। डिजिटल इंडिया अभियानस्य अन्तर्गतं ग्रामे ग्रामे अन्तर्जाल तथा बैङ्किंग सुविधाः प्रापिताः।
मन्त्री उक्तवान् यत् भारतम् अधुना वैश्विक मञ्चे एकं सुदृढं विश्वसनीय राष्ट्ररूपेण स्थापितम् अस्ति। जी २० इत्यस्य सफल अध्यक्षता, अन्तरराष्ट्रीय स्तरस्य वर्धमाना प्रतिष्ठा तथा विदेशीय निवेशस्य वृद्धिः अस्य प्रमाणम् अस्ति। तेन कार्यकर्तृभ्यः सर्वकारस्य उपलब्धीनां जनकल्याणकारी योजनानां च सूचना गृहं गृहं प्रति प्रेषयितुं आह्वानं कृतम्। पत्रकार वार्तायां भारतीय जनता पार्टीदलस्य अनेके पदाधिकारी कार्यकर्तारः च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani