Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, १४ जूनमासः (हि.स.)। विश्व-हिन्दू-परिषद् अस्मिन् वर्षे सेप्टेम्बर-मासात् आरभ्य सम्पूर्णवर्षपर्यन्तं देशव्यापी अशोक-सिंहल-महोदयस्य जन्म-शताब्दीम् आचरिष्यति। जन्म-शताब्दी-समारोहस्य अन्तर्गतं देशस्य विभिन्नेषु स्थानेषु विविध-कार्यक्रमाणाम् आयोजनं भविष्यति। एतदर्थं केन्द्रीय-स्तरे तथा प्रान्तीय-स्तरे पृथक् समित्यौ निर्मास्येते। तयोः समित्योः मार्गदर्शनेन सर्वे कार्यक्रमाः सम्पन्नाः भविष्यन्ति।
विश्व-हिन्दू-परिषदः प्रवक्ता अम्बरीष-महोदयः रविवासरे हिन्दुस्थान-समाचार-संस्थायै उक्तवान् यत् शताब्दी-समारोह-समित्याः अन्तर्गतं आयोज्यमानानां विविध-कार्यक्रमाणां रूपरेखा अयोध्यानगरे २७ तथा २८ जूनमासयोः आयोज्यमानायां केन्द्रीय-प्रबन्ध-समितेः सभायां निर्धारिता भविष्यति। एषा सभा श्रीराम-सेवक-पुरम् स्थिते तीर्थयात्री-निवासे भविष्यति।
अस्यां सभायां विश्व-हिन्दू-परिषदः केन्द्रीय-महामन्त्री-सङ्घटनं मिलिन्द-पराण्डे-महोदयः, केन्द्रीय-सह-सङ्घटन-मन्त्री विनायक-राव-देशपाण्डे-महोदयः, परिषदः अध्यक्षः आलोक-कुमार-अधिवक्ता-महोदयः, केन्द्रीय-महामन्त्री बजरङ्गलाल-बाङ्गडा-महोदयः तथा परिषदः अन्ये केन्द्रीय-पदाधिकारिण: उपस्थिताः भविष्यन्ति। एतदतिरिक्तं विश्व-हिन्दू-परिषदः क्षेत्रीय-पदाधिकारी देशस्य सर्वेभ्यः प्रान्तेभ्यः प्रतिनिधयश्च सहभागिनः भविष्यन्ति।
प्रवक्ता अम्बरीष-महोदयः अवदत् यत् केन्द्रीय-प्रबन्ध-समितेः अस्यां सभायां अशोक-सिंहल-महोदयस्य जन्म-शताब्दी-समारोहस्य कार्ययोजनायाः अन्तिमः निर्णयः भविष्यति। तेन उक्तं यत् हिन्दूनां शौर्यस्य जागरणकर्तुः, सामाजिक-समरसतायाः अग्रदूतस्य, हिन्दुत्वस्य पुरोधसः, श्रीराम-जन्मभूमि-आन्दोलनस्य सर्वोच्च-सेनापतेः पूज्य-अशोक-सिंहल-महोदयस्य योगदानस्य विषये जन्म-शताब्दी-वर्षे समाजः अवगतः कारयिष्यते।
अशोक-सिंहल-महोदयस्य जन्म २७ सेप्टेम्बर १९२६ तमे वर्षे महावीर-सिंह-महोदयस्य विद्यावती-महोदयायाश्च गृहे अभवत्। तस्य पिता अलीगढ़-जनपदस्य बिजोली-ग्रामस्य निवासी आसीत्।
विजय-प्रताप-महोदयस्य पर्यवेक्षणे प्रचलन्ति सज्जताः
केन्द्रीय-प्रबन्ध-समितेः सभां सफलतया सम्पन्नकर्तुं अयोध्यानगरे पूर्वमेव सभा: सम्पन्नाः सन्ति। विश्व-हिन्दू-परिषदः केन्द्रीय-महामन्त्री-सङ्घटनस्य मिलिन्द-पराण्डे-महोदयस्य उपस्थितौ सम्पन्नायां बैठके क्षेत्र-सङ्घटन-मन्त्री गजेन्द्र-सिंह-महोदयः प्रान्तीय-पदाधिकारेभ्यः उत्तरदायित्वानि वितरितवान्। अवध-प्रान्तस्य प्रान्त-सङ्घटन-मन्त्री विजय-प्रताप-महोदयस्य पर्यवेक्षणे सभायाः सज्जताः प्रचलन्ति।
Hindusthan Samachar / Divya Ranjan