अपेक्षितैः सह समुत्थितः सर्वकारः, प्रत्येकं उचित समस्यायाः करिष्यति निदानम् - मुख्यमंत्री
मुख्यमंत्रिना योगिना आरक्षिराजस्वयोः संबंधीप्रकरणानां समयान्निस्तारणे दत्तं बलम् गोरखपुरम्, 14 जूनमासः (हि.स.)। मुख्यमन्त्री योगीआदित्यनाथः रविवासरे गोरखनाथमन्दिरपरिसरस्थिते दिग्विजयनाथस्मृतिभवनस्य बहिः जनतादर्शनकार्यक्रमम् आयोजितवान्। अत्र प्
मुख्यमंत्री ने गोसेवा भी की, मंदिर परिसर के भ्रमण के दौरान बच्चों से किया संवाद*


मुख्यमंत्री ने गोसेवा भी की, मंदिर परिसर के भ्रमण के दौरान बच्चों से किया संवाद*


मुख्यमंत्री ने गोसेवा भी की, मंदिर परिसर के भ्रमण के दौरान बच्चों से किया संवाद*


मुख्यमंत्री ने गोसेवा भी की, मंदिर परिसर के भ्रमण के दौरान बच्चों से किया संवाद*


मुख्यमंत्री ने गोसेवा भी की, मंदिर परिसर के भ्रमण के दौरान बच्चों से किया संवाद*


मुख्यमंत्रिना योगिना आरक्षिराजस्वयोः संबंधीप्रकरणानां समयान्निस्तारणे दत्तं बलम्

गोरखपुरम्, 14 जूनमासः (हि.स.)।

मुख्यमन्त्री योगीआदित्यनाथः रविवासरे गोरखनाथमन्दिरपरिसरस्थिते दिग्विजयनाथस्मृतिभवनस्य बहिः जनतादर्शनकार्यक्रमम् आयोजितवान्। अत्र प्रदेशस्य विभिन्नजनपदेभ्यः प्रायः द्विशतजनाः स्वस्वपीडां निवेदयितुं आगतवन्तः। मुख्यमन्त्री एकैकस्य जनस्य समस्यां श्रुत्वा तस्याः समुचितनिस्तारणार्थं अधिकारिभ्यः निर्देशान् प्रदत्तवान्। मुख्यमन्त्री आश्वासनं दत्तवान् यत् सर्वकारः प्रत्येकस्य आवश्यकजनस्य सह स्थितः अस्ति तथा च सर्वेषां उचितसमस्यानां समाधानं करिष्यति। सीएम योगी प्रकरणानां निस्तारणार्थं प्रशासनिकपुलिसाधिकारिभ्यः प्रार्थनापत्राणि प्रेष्य निर्देशितवान् यत् सर्वासां समस्याणां निस्तारणं निष्पक्षतया निर्धारितकालसीमायाः अन्तर्गतं भवितव्यम्।

निर्धारितकालसीमायाः अन्तर्गतं पीडितेभ्यः न्यायं प्रदत्तव्यं

जनतादर्शने पुलिसराजस्वसम्बद्धशिकायतासु मुख्यमन्त्रिणा कठोरः दृष्टिकोणः स्वीकृतः। तेन जिलाधिकारिणः निर्देशः दत्तः यत् राजस्वसम्बद्धशिकायतानां निस्तारणे कस्यापि स्तरस्य उपेक्षा दृश्यते चेत् कठोरकार्यम् भवेत्। कस्यापि स्तरस्य शिथिलता अथवा प्रमादः न सह्यः भविष्यति। निर्धारितसमयस्य अन्तर्गतं पीडितजनानां न्यायप्राप्तिः सुनिश्चितीक्रियताम्।

चिकित्सायाः चिन्तां सर्वकारस्य उपरि त्यजन्तु

चिकित्सार्थम् आर्थिकसहायतां याचमानान् जनान् प्रति मुख्यमन्त्री उक्तवान् यत् भवन्तः स्वपरिजनानां स्वास्थ्यस्य ध्यानं कुर्वन्तु। चिकित्सायाः चिन्तां सर्वकारस्य उपरि त्यजन्तु सर्वकारः चिकित्सायां सहाय्यं करिष्यति। आवश्यकजनानां आयुष्मानपत्रस्य निर्माणं कारयिष्यते। जनानां कृते विवेकाधीनकोषतः अपि सहायता प्रदास्यते। मुख्यमन्त्री प्रत्येकस्य पात्रस्य आवश्यकजनस्य आयुष्मानपत्रनिर्माणार्थं अधिकारिभ्यः निर्देशान् प्रदत्तवान्।

गोरक्षपीठाधीश्वरेण गोसेवा कृता बालकेषु स्नेहः प्रदर्शितः

गोरखनाथमन्दिरप्रवासस्य समये रविवासरस्य प्रातःकाले अपि मुख्यमन्त्रिणः योगीआदित्यनाथस्य दिनचर्या पारम्परिका आसीत्। प्रातःकाले महायोगिगुरुगोरखनाथस्य ब्रह्मलीनगुरुदेवमहन्तअवेद्यनाथस्य च आशीर्वादं गृहीत्वा मुख्यमन्त्री योगी मन्दिरस्य गोशालायां गोसेवां कृतवान्। गोवंशाय स्वहस्तेन गुडरोटिकां प्रदाय तेषु स्नेहं प्रदर्शितवान्। ततः मन्दिरपरिसरस्य भ्रमणं कुर्वन् परिवारैः सह आगतान् बालकान् समीपम् आहूय तान् स्नेहेन आलालितवान् अध्ययनविषये संवादं कृतवान् च तेषां चॉकलेट् प्रदत्तवान्। जनतादर्शनस्य समये अपि मुख्यमन्त्री बालकेभ्यः चॉकलेट् प्रदाय मनोयोगेन अध्ययनं कृत्वा जीवनस्य उन्नतिं प्राप्तुम् आशीर्वादं दत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani