Enter your Email Address to subscribe to our newsletters

नवदेहली, १४ जूनमासः (हि.स.)। भारतीय-युवा-काङ्ग्रेस-सङ्घटनेन लोकसभायाः विपक्ष-नेता राहुल-गान्धि-महोदयस्य जन्मदिनस्य उपलक्ष्ये जूनमासस्य १९ दिनाङ्के देहल्यां तालकटोरा-क्रीडाङ्गणे ‘मेगा जॉब फेयर २०२६’ अर्थात् ‘विशाल-रोजगार-मेलापकस्य’ आयोजनस्य घोषणा कृता। काङ्ग्रेस-पक्षेण केन्द्र-सर्वकारः बेरोजगारी-समस्यां तथा प्रश्नपत्र-प्रस्रवण-घटनाः निवारयितुं विफलः इति आरोपः कृतः।
काङ्ग्रेस-पक्षस्य मुख्यालये आयोजितायां पत्रकार-वार्तायां युवा-काङ्ग्रेस-अध्यक्षः उदयभानु-चिब-महोदयः तथा दिल्ली-काङ्ग्रेस-सङ्घटनस्य प्रभारी अनिल-भारद्वाज-महोदयः विशाल-रोजगार-मेलापकस्य प्रचार-पत्रं प्रकाशितवन्तौ। अस्मिन् अवसरे उदयभानु-चिब-महोदयः उक्तवान् यत् जूनमासस्य १९ दिनाङ्के आयोज्यमाने रोजगार-मेलापके प्रायः १५० निर्माण्य: सहभागित्वं करिष्यन्ति। यूनां योग्यता-अनुसारेण साक्षात्कारः भविष्यति तथा चयनितेभ्यः अभ्यर्थिभ्यः स्थले एव नियुक्ति-पत्राणि प्रदास्यन्ते। रोजगार-मेलासम्बद्ध-समस्यानां समाधानार्थं सहायिका-दूरभाष-सङ्ख्या अपि प्रकाशित कीर्तिता भविष्यति।
तेन उक्तं यत् गतवर्षे अपि तालकटोरा-क्रीडाङ्गणे आयोजिते विशाल-रोजगार-मेलापके १८ सहस्राधिकैः युवभिः पञ्जीकरणं कृतम् आसीत्, तेषु प्रायः सप्तसहस्रं युवभ्यः नियुक्ति-पत्राणि प्रदत्तानि आसन्। अस्मात् पूर्वं जयपुरे तथा पाटलिपुत्रे अपि एतादृशानां रोजगार-मेलापकानाम् आयोजनं कृतम् आसीत्।
दिल्ली-काङ्ग्रेस-सङ्घटनस्य प्रभारी अनिल-भारद्वाज-महोदयः कथितवान् यत् गतवर्षे आयोजितस्य रोजगार-मेलापकस्य प्रथम-दिने एव ३,५०० युवभ्यः रोजगारः प्राप्तः आसीत्, तथा अस्मिन् वर्षे एषा संख्या अधिका भविष्यति इति अपेक्षा वर्तते।
Hindusthan Samachar / अंशु गुप्ता