Enter your Email Address to subscribe to our newsletters

नवदेहली, १४ जूनमासः (हि.स.)। कांग्रेस-अध्यक्षः मल्लिकार्जुन-खरगे-महोदयः ओमान-देशस्य समीपे जाते आक्रमणे त्रयाणां भारतीय-नाविकानां मृत्योः प्रकरणे उक्तवान् यत् घटनायाः त्रिदिनानन्तरमपि प्रधानमन्त्रीणः पक्षतः न किमपि सार्वजनिक-वक्तव्यं प्रकाशितं न वा शोक-सन्देशः प्रदत्तः। अतः देशः अस्मिन् विषये स्पष्टतां इच्छति। अस्मिन् आक्रमणे मृतानां नाविकानां परिवाराः न्यायस्य अधिकारिणः सन्ति।
खरगे-महोदयः रविवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र उक्तवान् यत् सः सम्पूर्ण-देशेन सह मिलित्वा प्राणान् त्यक्तवतां भारतीय-नाविकान् प्रति शोकं व्यक्तयति। नाविकानां पार्थिव-शरीराणि भारतम् आगतानि सन्ति, किन्तु अद्यावधि प्रधानमन्त्रीणः पक्षतः काचित् सार्वजनिक-प्रतिक्रिया न आगता।
कांग्रेस-अध्यक्षः आरोपम् अकरोत् यत् केन्द्रीय-सर्वकारस्य विदेश-नीतेः कारणात् भारतस्य वैश्विक-प्रतिष्ठा तथा सार्वभौमत्वं प्रभावितम् अभवत्। राष्ट्रिय-हितैः सह सन्धि: क्रियते। तेन उक्तं यत् पूर्ववर्तिनां सर्वकाराणां स्वतन्त्र-विदेश-नीतेः कारणात् विश्वं भारतस्य वचनं गम्भीरतया शृणोति स्म।
तेन उक्तं यत् विदेश-नीति-सम्बद्धेषु प्रकरणेषु भारतीय-नागरिकाणां जीवनं पश्चात् चिन्तनीय-विषयः कदापि न भवितुम् अर्हति। कांग्रेस-अध्यक्षः आग्रहम् अकरोत् यत् सर्वकारः अस्य सम्पूर्णस्य घटनाक्रमस्य विषये देशस्य पुरतः स्पष्टां स्थितिं प्रस्तौतुं तथा प्रभावित-परिवाराणां न्याय-प्राप्त्यर्थम् आवश्यकान् पदक्षेपान् गृह्णातु।
Hindusthan Samachar / Divya Ranjan