Enter your Email Address to subscribe to our newsletters

नवदेहली, १४ जूनमासः (हि.स.)। प्रधानमन्त्रिण: नरेन्द्र-मोदी-महोदयस्य अमेरिकी-राष्ट्रपतिना डोनाल्ड-ट्रम्प-महोदयेन सह १७ जूनमासे फ्रान्स-देशे प्रस्तावित-मेलनोपवेशनात् पूर्वं कांग्रेस-पक्षेण केन्द्रीय-सर्वकारात् भारतस्य राष्ट्रिय-हितैः सम्बद्धानां विषयाणां दृढतया प्रस्तुतीकरणस्य आग्रहः कृतः। पक्षेण उक्तं यत् ओमान-तटस्य समीपे अमेरिकी-कार्यवाह्यां त्रयाणां भारतीय-नाविकानां मृत्युः, भारत-अमेरिका-व्यापार-सन्धिं तथा अमेरिकी-प्रशासनस्य समीपवर्तिनः व्यवहारः इत्यादिषु विषये भारतेन स्वचिन्ताः स्पष्टतया प्रस्तोतव्याः।
कांग्रेस-पक्षस्य महासचिवः जयराम-रमेश-महोदयः रविवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र प्रकाशिते वक्तव्ये उक्तवान् यत् प्रधानमन्त्री मोदी-महोदयः शीघ्रमेव अमेरिकी-राष्ट्रपतिना डोनाल्ड-ट्रम्प-महोदयेन सह मेलिष्यति। अतः देशस्य नागरिकाः ज्ञातुम् इच्छन्ति यत् किं प्रधानमन्त्री अमेरिकी-कार्यवाह्यां त्रयाणां भारतीय-नाविकानां मृत्योः विषये भारतस्य दृढ-विरोधं प्रकटयिष्यति, तथा च अमेरिकी-विदेशमन्त्रिणा मार्को-रुबियो-महोदयेन विदेशमन्त्रिणा एस.जयशङ्कर-महोदयेन सह सम्पन्नायां वार्तायां प्रयुक्त-भाषायाः विषयमपि उत्थापयिष्यति वा।
जयराम-रमेश-महोदयः भारत-अमेरिका-व्यापार-सम्बन्धानां विषये अपि चिन्तां व्यक्तवान्। तेन उक्तं यत् अमेरिकी-व्यापार-प्रतिनिधिः जैमिसन-ग्रीयर-महोदयः शीघ्रमेव भारत-यात्रां करिष्यति। कांग्रेस-पक्षस्य आरोपः अस्ति यत् प्रस्तावितस्य अन्तरिम-व्यापार-सन्धे: अन्तर्गतं केन्द्रीय-सर्वकारेण एतादृशा: पदक्षेपा: गृहीता:, येषां कारणात् भारतीय-कृषकाणां स्वदेशीय-उद्योगानां च हितानि प्रभावितानि भवितुं शक्नुवन्ति। तेन उक्तं यत् अमेरिकी-सर्वोच्च-न्यायालयेन ट्रम्प-प्रशासनस्य शुल्क-व्यवस्था निरस्ता सती अपि भारत-सर्वकारेण अस्य सन्धे: शर्तानां पुनर्विचारः न कृतः, यत् चिन्ताजनकम् अस्ति।
कांग्रेस-नेता अमेरिकी-विदेशमन्त्रिणः तस्याः टिप्पण्याः अपि उल्लेखम् अकरोत्, यस्यां भारतेन अग्रिम-पञ्चवर्षेषु ५००-अर्बुद-डॉलर-परिमितस्य अमेरिकी-सामग्री-क्रयणस्य सम्भाव्य-प्रतिबद्धतायाः चर्चा कृता आसीत्। तेन उक्तं यत् एतादृश-वक्तव्यानि अनेकान् गम्भीर-प्रश्नान् उत्थापयन्ति, भारतेन च स्वकीय-आर्थिक-रणनीतिक-हितानां रक्षणार्थम् अधिकः स्पष्टः दृढश्च दृष्टिकोणः स्वीकरणीयः।
अस्मिन् विषये कांग्रेस-सांसदः मनीष-तिवारी-महोदयः अपि केन्द्रीय-सर्वकारात् अमेरिकादेशस्य पुरतः भारतस्य चिन्तानां दृढतया प्रस्तुतीकरणस्य आग्रहम् अकरोत्। तेन उक्तं यत् ट्रम्प-प्रशासनस्य सत्ताग्रहणानन्तरं भारतं प्रति अमेरिकी-दृष्टिकोणः सर्वथा मैत्रीपूर्णः नासीत्। अमेरिकादेशे कथितरूपेण अवैधरूपेण निवसतां भारतीय-नागरिकाणां प्रत्यावर्तन-विषयः, भारतीय-उत्पादेषु वर्धिताः शुल्काः अथवा आतङ्कवादं पोषयद्भिः देशैः सह अमेरिकादेशस्य वर्धमान-समीपता—एतेषां कारणानां फलस्वरूपं द्विपक्षीय-सम्बन्धेषु बहुवारं चिन्ताया: स्थितिः उत्पन्ना।
मनीष-तिवारी-महोदयः उक्तवान् यत् एतादृशे समये प्रधानमन्त्रीणः अपेक्षा क्रियते यत् सः अमेरिकी-प्रशासनस्य पुरतः भारतस्य चिन्ताः, असन्तोषं तथा राष्ट्रिय-हितैः सम्बद्धान् विषयान् स्पष्टतया प्रस्तौतु। तेन उक्तं यत् भारतेन स्वस्य सार्वभौमत्वे, आर्थिक-हितेषु, नागरिकाणां सुरक्षायां च सम्बद्धेषु विषयेषु कस्यापि प्रकारस्य सन्धि: न कर्तव्या।
कांग्रेस-पक्षेण उक्तं यत् प्रधानमन्त्री-मोदी-महोदयस्य राष्ट्रपतिः ट्रम्प-महोदयेन सह प्रस्तावितं मेलनोपवेशनं केवलं द्विपक्षीय-सम्बन्धानां कृते एव न, अपितु भारतस्य आर्थिक-रणनीतिक-कूटनीतिक-हितानां दृष्ट्या अपि अत्यन्तं महत्त्वपूर्णम् अस्ति। अतः देशस्य अपेक्षा अस्ति यत् भारतं स्वहितानां रक्षणार्थं दृढं स्पष्टं च सन्देशं प्रदद्यात्।
Hindusthan Samachar / Divya Ranjan