भारतीय-नाविकानां मृत्योः विषये अमेरिकादेशात् क्षमायाचनां उत्तरदायित्व-निर्धारणं च याचेत् केन्द्रीय-सर्वकारः - कांग्रेस-पक्षः
नवदेहली, १४ जूनमासः (हि.स.)। ओमान-देशस्य तटस्य समीपे घटितायां घटनायां भारतीय-नाविकानां मृत्युम् अधिगम्य कांग्रेस-पक्षः केन्द्रीय-सर्वकारस्य दृष्टिकोणं प्रश्नाङ्कितवान् तथा अमेरिकादेशात् क्षमायाचनां उत्तरदायित्व-निर्धारणं च कर्तुम् आग्रहं कृतवान्। प
कांग्रेस मीडिया विभाग एक अध्यक्ष पवन खेड़ा कांग्रेस मुख्यालय में पत्रकार वार्ता को संबोधित करते हुए


नवदेहली, १४ जूनमासः (हि.स.)। ओमान-देशस्य तटस्य समीपे घटितायां घटनायां भारतीय-नाविकानां मृत्युम् अधिगम्य कांग्रेस-पक्षः केन्द्रीय-सर्वकारस्य दृष्टिकोणं प्रश्नाङ्कितवान् तथा अमेरिकादेशात् क्षमायाचनां उत्तरदायित्व-निर्धारणं च कर्तुम् आग्रहं कृतवान्। पक्षस्य मतम् अस्ति यत् भारतीय-नागरिकाणां प्राणहानिः इव गम्भीरविषये सर्वकारेण अधिकः दृढः स्पष्टश्च दृष्टिकोणः स्वीकर्तव्यः आसीत्।

कांग्रेस-पक्षस्य माध्यम-प्रचार-विभागस्य अध्यक्षः पवन-खेडा-महोदयः रविवासरे पत्रकारैः सह संवादं कुर्वन् अवदत् यत् विदेशमन्त्री डॉ.एस.जयशङ्कर-महोदयस्य अमेरिकी-विदेशमन्त्रिणः मार्को-रुबियो-महोदयस्य च मध्ये सम्पन्नायाः वार्तायाः अनन्तरं प्रकाशितेषु आधिकारिक-सन्देशेषु भारतस्य पक्षतः अपेक्षिता कठोरता न दृश्यते। सः अवदत् यत् येषां क्रियाभिः भारतीय-नागरिकाणां प्राणहानिः अभवत्, तेषां प्रति मृदु-भाषायाः प्रयोगः न युक्तः मन्यते।

खेड़ा-महोदयः अवदत् यत् अन्तरराष्ट्रीय-विधानानुसारं कस्यापि सशस्त्र-संघर्षस्य समये तृतीय-देशस्य वाणिज्यिक-पोतः लक्ष्यीकर्तुं न शक्यते। सः समुद्रे सशस्त्र-संघर्षेषु प्रवर्तमानानां अन्तरराष्ट्रीय-विधानानां सम्बन्धिनः सैन-रेमो-मैनुअल-इत्यस्य तथा १९४९ तमे वर्षे स्वीकृतस्य जिनेवा-अभिसमयस्य उल्लेखं कृत्वा उक्तवान् यत् एतादृशेषु प्रकरणेषु उत्तरदायित्व-निर्धारणम् अत्यावश्यकम् अस्ति, उत्तरदायिनः पक्षाश्च स्वकृत्यानां कृते उत्तरदायित्वं वहेयुः।

कांग्रेस-नेता अवदत् यत् अस्मिन् प्रकरणे भारतेन स्वकीयाः नागरिकाः नष्टाः, अतः केन्द्रीय-सर्वकारेण अमेरिकादेशात् औपचारिक-क्षमायाचनायाः आग्रहः करणीयः, सम्पूर्ण-प्रकरणस्य निष्पक्ष-अन्वेषणं उत्तरदायित्व-निर्धारणं च सुनिश्चितं करणीयम्। तस्य मते अस्मिन् विषये भारत-सर्वकारस्य दृष्टिकोणः अपेक्षया मृदुः दृश्यते, यद्यपि राष्ट्रीय-हितानां नागरिक-सुरक्षायाश्च सर्वोच्च-प्राथमिकता भवितव्या।

पवन-खेड़ा-महोदयः अवदत् यत् विदेशेषु कार्यरतानां भारतीय-नागरिकाणां सुरक्षा सम्मानश्च सुनिश्चितः कर्तुं सर्वकारस्य महत् दायित्वम् अस्ति। तेन आग्रहः कृतः यत् भारत-सर्वकारः एतत् प्रकरणम् अन्ताराष्ट्रिय-मञ्चेषु दृढतया उत्थापयेत् तथा भविष्ये एतादृशानां घटनानां पुनरावृत्तिः न भवेत् इति सुनिश्चितं कुर्यात्।

कांग्रेस-पक्षः अस्मिन् प्रकरणे पारदर्शितायाः स्पष्ट-कार्यवाह्याश्च आवश्यकतां प्रतिपादयन् अवदत् यत् भारतीय-नागरिकाणां प्राणैः सम्बद्धेषु विषये सर्वकारेण अधिक-सक्रिया प्रभावशालिनी च कूटनीतिक-प्रयत्न: कर्तव्य:।

Hindusthan Samachar / Divya Ranjan