Enter your Email Address to subscribe to our newsletters

नवदेहली, १४ जूनमासः (हि.स.)। केन्द्रीय-शिक्षामन्त्री धर्मेन्द्र-प्रधान-महोदयः उक्तवान् यत् भारतम् उपचार-केन्द्रित-स्वास्थ्य-व्यवस्थातः अग्रे गत्वा निवारणम्, समये परीक्षणम् तथा समग्र-स्वास्थ्याधारितं प्रतिमानं प्रति तीव्रतया अग्रसरम् अस्ति।
सामाजिक-माध्यमेषु प्रसारिते स्वसन्देशे तेन उक्तं यत् प्रधानमन्त्रिण: नरेन्द्र-मोदी-महोदयस्य नेतृत्वे देशः ‘समग्र-स्वास्थ्य’ इति दृष्टेः साकारतां प्रति कार्यं कुर्वन् अस्ति। अस्य अन्तर्गतं निवारक-स्वास्थ्य-सेवाः सुदृढीक्रियन्ते, रोगाणां प्रारम्भिक-परिचयः प्रोत्साह्यते तथा गुणवत्तायुक्ताः स्वास्थ्य-सेवाः अधिकाः सुलभाः सर्वसमावेशिन्यश्च क्रियन्ते।
धर्मेन्द्र-प्रधान-महोदयः उक्तवान् यत् ‘विकसित-भारतस्य’ निर्माणं स्वस्थेन, सशक्तेन, जागरूकेण च समाजेन विना सम्भवं नास्ति। तेन विशेषतया प्रतिपादितं यत् स्वास्थ्य-क्षेत्रे क्रियमाणाः सुधाराः देशं समावेशि-विकासस्य उत्तम-जीवन-गुणवत्तायाश्च दिशि अग्रे नयन्ति।
Hindusthan Samachar / Divya Ranjan