पूर्व-सैनिक-सेवा-परिषदा अग्निवीर-योजनायां चयनितानां ४१ यूनां सम्मानं कृतम्
कोंडागांवनगरम्, १४ जूनमासः (हि.स.)। अखिल-भारतीय-पूर्व-सैनिक-सेवा-परिषदा अद्य रविवासरे सम्मान-समारोहं आयोजित्य अग्निवीर-योजनायां चयनितानां एकचत्वारिंशत् ४१ यूनां अभिनन्दनं कृतम्। परिषदेः संरक्षकः तथा बस्तर-संभाग-प्रभारी सुब्रत-साहा-महोदयस्य निर्देश
पूर्व सैनिक सेवा परिषद ने अग्निवीर में चयनित 41 युवाओं का किया सम्मान


कोंडागांवनगरम्, १४ जूनमासः (हि.स.)। अखिल-भारतीय-पूर्व-सैनिक-सेवा-परिषदा अद्य रविवासरे सम्मान-समारोहं आयोजित्य अग्निवीर-योजनायां चयनितानां एकचत्वारिंशत् ४१ यूनां अभिनन्दनं कृतम्।

परिषदेः संरक्षकः तथा बस्तर-संभाग-प्रभारी सुब्रत-साहा-महोदयस्य निर्देशनं, तथा जिला-अध्यक्षस्य सूरज-यादव-महोदयस्य मार्गदर्शनं च आश्रित्य आयोजिते अस्मिन् कार्यक्रमे चयनिताः युवा पुष्पमालया, प्रशस्ति-पत्रैः च सम्मानिताः।

सम्मानिताः युवकाः कोंडागांव, बडेराजपुर, फरसगांव तथा केशकाल-खण्डानां निवासीन: सन्ति। एते सर्वे पूर्व-सैनिकैः प्रदत्तस्य निशुल्क-सैन्य-प्रशिक्षणस्य मार्गदर्शनस्य च लाभं प्राप्य अग्निवीर-नियुक्ति-प्रक्रियायां सफलतां प्राप्तवन्तः।

कार्यक्रमे उपस्थितैः अतिथिभिः चयनित-यूनां कृते शुभकामनाः दत्ताः तथा देश-सेवायां समर्पण-भावेन कार्यं कर्तुं प्रेरणा प्रदत्ता।

पूर्व-सैनिकैः उक्तं यत् ते स्व-पेंशन-धनराश्या बस्तर-क्षेत्रस्य युवभ्यः निशुल्क-सैन्य-प्रशिक्षणं प्रददति। अस्य उपक्रमस्य उद्देश्यं ग्रामीण-तथा-दूरस्थ-क्षेत्राणां यूनां सैन्य-सेवा तथा सुरक्षा-बल-नियुक्त्यर्थं सज्जीकरणम् अस्ति।

परिषदेः प्रयासैः अद्यावधि अनेके युवकाः युवतयः च बस्तर-योद्धा, अर्धसैनिक-बलं, नगर-सेना तथा जनपद-बलेषु चयनं प्राप्य सेवां कुर्वन्ति।

विकास-नगर-स्टेडियम् मध्ये प्रतिदिनं प्रातः ५:३० वादनात् ७:३० वादनपर्यन्तं निशुल्क-सैन्य-प्रशिक्षणं प्रदीयते। अस्मिन् प्रशिक्षण-कार्यक्रमे शारीरिक-दक्षता, धावन-प्रशिक्षणम्, अनुशासनं तथा भर्ती-प्रक्रियायाः सज्जता कारयन्ते।

कार्यक्रमे सुब्रत-साहा, सूरज-यादव:, अजनेर-लकड़ा, रतिराम-सोरी, राकेश-धीवर:, ढालेश-साहू इत्यादयः पूर्व-सैनिकाः अनेके युवा-जनाः च उपस्थिता: आसन्।

Hindusthan Samachar / Divya Ranjan