भारतीय-प्रतिभायाः यूरोपीय-पूञ्ज्याः च मध्ये ‘भारत-इनोवेट्स्’ सेतुरूपेण कार्यं करिष्यति - प्रधानमन्त्री
नवदेहली, १४ जूनमासः (हि.स.)। फ्रान्स-देशस्य नीस्-नगरे आयोजिते ‘भारत-इनोवेट्स’ कार्यक्रमे प्रधानमन्त्री नरेन्द्र-मोदी-महोदयः भारत-फ्रान्स-देशयोः सामरिक-सहभागितां साझा-दृष्ट्या, नवाचारेण तथा प्रेरणया आधारिताम् इति वर्णितवान्। तेन उक्तं यत् एषः मञ्चः
कार्यक्रम को संबोधित करते प्रधानमंत्री


नवदेहली, १४ जूनमासः (हि.स.)। फ्रान्स-देशस्य नीस्-नगरे आयोजिते ‘भारत-इनोवेट्स’ कार्यक्रमे प्रधानमन्त्री नरेन्द्र-मोदी-महोदयः भारत-फ्रान्स-देशयोः सामरिक-सहभागितां साझा-दृष्ट्या, नवाचारेण तथा प्रेरणया आधारिताम् इति वर्णितवान्। तेन उक्तं यत् एषः मञ्चः भारतीय-प्रतिभायाः यूरोपीय-पूञ्ज्याः च मध्ये सेतुरूपेण कार्यं करिष्यति तथा भारतीय-नवाचारान् वैश्विक-मञ्चं प्रति नेतुं महत्त्वपूर्णां भूमिकां निर्वहिष्यति।

प्रधानमन्त्री नरेन्द्र-मोदी-महोदयेन फ्रान्स-देशस्य राष्ट्रपतिना इमानुएल्-मैक्रोन-महोदयेन सह संयुक्तरूपेण ‘भारत-इनोवेट्स’ कार्यक्रमस्य उद्घाटनं कृतम्। कार्यक्रमात् पूर्वं प्रधानमन्त्रिणा प्रमुख-निवेशकैः तथा वेंचर-कैपिटल-प्रतिनिधिभिः सह अपि साक्षात्कार: कृत:।

प्रधानमन्त्री उक्तवान् यत् विश्वस्य राष्ट्राणि व्यापारिक-सामरिक-सहभागिताः कुर्वन्ति, किन्तु केचन सम्बन्धाः केवलं समान-हितेषु एव सीमिताः न भवन्ति। भारत-फ्रान्स-सम्बन्धौ तादृशस्यैव सम्बन्धस्य उदाहरणम् इति तेन उक्तम्। एषः सम्बन्धः सहभाग-दृष्ट्या तथा परस्पर-विश्वासेन आधारितः अस्ति। अस्मिन् सम्बन्धे सम्बद्धता, दृढ-विश्वासः, नवाचारः, प्रेरणा, समान-मूल्यानि तथा समान-दृष्टिकोणत्वेन समाविष्टानि सन्ति। एतस्यैव आधारेण उभाभ्यां देशाभ्यां विगत-वर्षेषु अनेके नवीन-उपक्रमाः आरब्धाः।

तेन उक्तं यत् ‘भारत-इनोवेट्स’ तस्यैव दिशि महत्त्वपूर्णं पदम् अस्ति। एषः मञ्चः भारतीय-प्रतिभायाः यूरोपीय-पूञ्ज्याः च मध्ये सेतुवत् कार्यं करोति। अनेन भारतीय-युवभ्यः यूरोपीय-विशेषज्ञतया सह सम्बद्धतां प्राप्य स्वविचारान् अग्रे नेतुं अवसरः लभ्यते।

प्रधानमन्त्री उक्तवान् यत् एकविंशतितमे शतके भारतम् महतां परिवर्तनानां कालं अनुभवति तथा देशे स्टार्टअप-क्रान्तिः दृश्यते। भारतस्य युवा-शक्तिः नवीन-दृष्टिकोणेन मानवतायाः समस्यासु समाधानानि अन्विष्यति। ‘भारत-इनोवेट्स्’ एतानि विश्वस्तरीय-समाधानानि वैश्विक-मञ्चं प्रति नेतुं माध्यमं भवति।

तेन उक्तं यत् अद्य भारतं केवलं समाधानानां उपभोक्ता नास्ति, अपितु समाधान-प्रदाता-राष्ट्ररूपेण उदेति। देशः प्रौद्योगिकी-प्रदाता-रूपेण अग्रे गच्छति। उपस्थितानां युवा-उद्यमिनां प्रशंसां कुर्वन् सः उक्तवान् यत् तेषु आत्मविश्वासेन ऊर्जया च परिपूर्णस्य नूतन-भारतस्य प्रतिबिम्बं दृश्यते। केचन उद्यमिनः कृत्रिम-बुद्धिमत्तायाः माध्यमेन ग्रामीण-भारतस्य जीवनं परिवर्तयन्ति, अन्ये च उपग्रह-प्रौद्योगिक्याः उपयोगेन कृषकाणां साहाय्यं कुर्वन्ति।

प्रधानमन्त्री उक्तवान् यत् भारतस्य लक्ष्यं मानवतायाः सेवां कुर्वन्तीं प्रौद्योगिकीं विकसितुम् अस्ति। भारतस्य डिजिटल-क्रान्तिः तथा डिजिटल-सार्वजनिक-अवसंरचना एतस्यैव चिन्तनस्य फलम् इति तेन निर्दिष्टम्। कृत्रिम-बुद्धिमत्ता-विषये भारतस्य दृष्टिकोणः ‘सर्वेभ्यः कृत्रिम-बुद्धिमत्ता’ इति सिद्धान्ते आधारितः अस्ति, यस्य उद्देश्यं प्रत्येकं जनस्य कल्याणं सुखं च संवर्धयितुम् अस्ति।

प्रधानमन्त्री उक्तवान् यत् अस्मिन्नेव वर्षे भारत-फ्रान्स-नवाचार-वर्षस्य आरम्भः अभवत्। ‘भारत-इनोवेट्स’ कार्यक्रमस्य आरम्भोऽपि फ्रान्स-देशेन सह एव क्रियते इति उक्त्वा तेन राष्ट्रपतये इमानुएल-मैक्रोन-महोदयाय कृतज्ञता व्यक्ता।

Hindusthan Samachar / Divya Ranjan