दृढसुरक्षाव्यवस्थायां संपन्ना प्रवक्तृनियोजन प्रारंभिक परीक्षा, 3438 अभ्यर्थिनोऽददुः परीक्षाम्
औरैया, 14 जूनमासः (हि. स.)।उत्तरप्रदेशलोकसेवाआयोगेन आयोजितस्य राजकीयइन्टरकॉलेजप्रवक्तृभर्तीप्रारम्भिकपरीक्षा द्विसहस्रपञ्चविंशत्याः रविवासरे जनपदस्य नव परीक्षाकेन्द्रेषु शान्तिपूर्णनिष्पक्षनकलवर्जितवातावरणे सम्पन्ना अभवत्। परीक्षा एकस्यां एव पाल्या
निरीक्षण करते हुए जिला अधिकारी व पुलिस अधीक्षक


औरैया, 14 जूनमासः (हि. स.)।उत्तरप्रदेशलोकसेवाआयोगेन आयोजितस्य राजकीयइन्टरकॉलेजप्रवक्तृभर्तीप्रारम्भिकपरीक्षा द्विसहस्रपञ्चविंशत्याः रविवासरे जनपदस्य नव परीक्षाकेन्द्रेषु शान्तिपूर्णनिष्पक्षनकलवर्जितवातावरणे सम्पन्ना अभवत्। परीक्षा एकस्यां एव पाल्यां आयोजिता यस्यां कुलत्रिसहस्रचतुःशताष्टात्रिंशत् अभ्यर्थिनः सहभागी अभवन्। परीक्षायाः सफलसम्पादनाय प्रशासनस्य पक्षेण व्यापकसुरक्षानिरीक्षणव्यवस्था कृता आसीत्।

रविवासरे प्रातःकालात् एव सर्वेषु परीक्षाकेन्द्रेषु अभ्यर्थिनां महती संख्या दृष्टा। प्रवेशात् पूर्वं प्रत्येकस्य अभ्यर्थिनः सघनपरीक्षणं कृतम्। आयोगस्य निर्देशानुसारं प्रातः अष्टवादनपञ्चचत्वारिंशन्मिनटसमये परीक्षाकेन्द्राणां प्रवेशद्वाराणि पिहितानि तदनन्तरं कस्यापि अभ्यर्थिनः केन्द्रे प्रवेशस्य अनुमतिः न प्रदत्ता। अनेन कारणेन बहवः विलम्बेन आगताः परीक्षार्थिनः बहिः एव प्रत्यागन्तुम् अभवन्।

परीक्षायाः शुचितां रक्षितुं सर्वेषु केन्द्रेषु पुलिसबलस्य सह क्षेत्राधिकारिणः स्थिरन्यायाधीशाः च नियुक्ताः आसन्। प्रशासनिकाधिकारिणः परीक्षाव्यवस्थायाः उपरि निरन्तरं दृष्टिं स्थापयन्तः केन्द्राणां भ्रमणं कृत्वा व्यवस्थाः निरीक्षितवन्तः।

अस्मिन् अवसरे जिलाधिकारी बृजेशकुमारः तथा पुलिसअधीक्षकः अभिषेकभारती विभिन्नपरीक्षाकेन्द्राणां निरीक्षणं कृतवन्तौ। ताभ्यां केन्द्रव्यवस्थापकान् कर्तव्ये नियुक्तान् अधिकारिणः च परीक्षा पूर्णपारदर्शितया निष्पक्षतया अनुशासनेन च सम्पन्नां कर्तुं निर्देशाः प्रदत्ताः। अधिकारिभिः परीक्षाकक्षाणां सुरक्षाव्यवस्थायाः अभ्यर्थिभ्यः प्रदत्तसुविधानां च निरीक्षणं कृतम्।

जनपदे नगरपालिकाइन्टरकॉलेज औरैया तिलकइन्टरकॉलेज औरैया जनताइन्टरकॉलेज ककोरबुजुर्ग श्रीजनताइन्टरकॉलेज अजीतमल जिलापञ्चायतइन्टरकॉलेज मुरादगञ्ज इत्यादयः सहिताः कुलं नव परीक्षाकेन्द्राणि निर्मितानि आसन्। सर्वेषु केन्द्रेषु परीक्षा शान्तिपूर्णवातावरणे सम्पन्ना अभवत् तथा च कुत्रापि कस्यापि प्रकारस्य अव्यवस्थायाः नकलस्य वा शिकायत प्राप्ता न अभवत्।

प्रशासनिकाधिकारिणः परीक्षायाः सफलायोजनस्य विषये सन्तोषं व्यक्तवन्तः तथा च उक्तवन्तः यत् आयोगस्य अभिप्रायानुसारं सम्पूर्णा प्रक्रिया पारदर्शकरूपेण सुव्यवस्थितरीत्या च सम्पन्ना कृता अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani