Enter your Email Address to subscribe to our newsletters

नवदेहली, १४ जूनमासः (हि.स.)। देशे गत-द्वादश-वर्षेषु आधारभूत-संरचना-विकासे तथा राष्ट्रिय-राजमार्ग-जालस्य विस्तारे अभूतपूर्वं परिवर्तनम् अभिलक्षितम्। २०१४ तमे वर्षे राष्ट्रिय-मार्ग-जालस्य दीर्घता प्रायः ९१,२८७ किलोमीटर आसीत्, या वित्तीय-वर्षे २०२५-२६ तमे ६१ प्रतिशतं वर्धित्वा १,४६,५७२ किलोमीटराधिकं जाता। राष्ट्रिय-राजमार्गाणाम् अस्य तीव्र-विस्तारेण तथा वैश्विक-स्तरस्य आधारभूत-संरचनया देशस्य आर्थिक-प्रगतिः त्वरिता अभवत् तथा माल-परिवहन-व्ययः अपि न्यूनीकृतः।
केन्द्रीय-सड़क-परिवहन-राजमार्ग-मन्त्रालयेन रविवासरे सूचितं यत् वर्षे २०१३-१४ तमे मार्ग-निर्माणस्य प्रतिशतत-गतिः प्रतिदिनं ११.६ किलोमीटर आसीत्, या वर्षे २०२५ तमे वर्धित्वा प्रतिदिनं प्रायः ३४ किलोमीटर पर्यन्तं प्राप्तवती।
मन्त्रालयेन उक्तं यत् भारतीय-प्रबन्धन-संस्थानस्य बेङ्गलूरु-अध्ययनानुसारं राष्ट्रिय-राजमार्ग-विकासेन उद्योग-स्थलानि प्रति गमनं सुकरं जातम्, येन परिवहन-व्यये महती न्यूनता अभवत्। तथा च प्रमुखायां ‘भारतमाला-परियोजनायाम्’ ३४,८०० किलोमीटर-दीर्घस्य राष्ट्रिय-राजमार्ग-परिसरस्य विकासस्य लक्ष्यं निर्धारितम् अस्ति, यस्य अन्तर्गतं मार्च २०२६ पर्यन्तं २२,५९० किलोमीटर-दीर्घानां मार्गाणां निर्माणं सम्पन्नं जातम्।
मन्त्रालयस्य अनुसारं प्रायः १,३८६ किलोमीटर-दीर्घः देहली-मुम्बई-द्रुतमार्गः सम्पन्नः सन् देशस्य दीर्घतमः नियन्त्रित-प्रवेश-द्रुतमार्गः भविष्यति। प्रधानमन्त्री नरेन्द्र-मोदी-महोदयेन गत ५ जून-दिनाङ्के अस्य गुजरात-खण्डस्य किम्-एना (३६ कि.मी.) तथा गन्देवा-एना (२७.५ कि.मी.) इत्येतयोः भागयोः उद्घाटनं कृतम्। अपरं च प्रायः ८२ किलोमीटर-दीर्घः देहली-मेरठ-द्रुतमार्गः यात्राकालं पर्याप्तरूपेण न्यूनं कृतवान्।
देहल्याः द्वारका-द्रुतमार्गस्य देहली-खण्डस्य उद्घाटनम् अगस्त-मासे २०२५ तमे तथा हरियाणा-खण्डस्य उद्घाटनम् मार्च-मासे २०२४ तमे प्रधानमन्त्रिणा कृतम्। दक्षिण-भारते च ११८ किलोमीटर-दीर्घः बेङ्गलूरु-मैसूरु-द्रुतमार्गः यात्राकालं त्रिहोराभ्यः न्यूनं कृत्वा केवलं ७५ निमेषान् अवशेषितवान्।
मन्त्रालयेन उक्तं यत् १२,००० कोटि-रूप्यकाणां व्ययेन निर्मितस्य २१३ किलोमीटर-दीर्घस्य देहली-देहरादून-आर्थिक-परिसरस्य उद्घाटनं १४ एप्रिल् २०२६ दिनाङ्के अभवत्। अस्मिन् परियोजनायां राजाजी-राष्ट्रीय-उद्यानस्य पर्यावरण-संवेदनशील-क्षेत्रस्य संरक्षणार्थम् १२ किलोमीटर-दीर्घः एशिया-खण्डस्य दीर्घतमः उन्नत-वन्यजीव-परिसरः निर्मितः अस्ति।
Hindusthan Samachar / Divya Ranjan