Enter your Email Address to subscribe to our newsletters

- मुख्यमंत्री 1.25 कोटिसंख्यकानां भगिनीनां कोषेषु अंतरितानि 1835 कोटिसंख्यकानि रुप्यकाणि, 190 कोटिरुप्यकाणां 53 विकास कार्याणां कृतं भूमि-पूजनं लोकार्पणं च
भोपालम्, 14 जूनमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादव उक्तवान् यत् मातृशक्तेः आशीर्वादः शासनाय संबलं प्रददाति। तासां सहभागितया नेतृत्वेन च अद्य मध्यप्रदेशः विकासमार्गे अग्रे गच्छन् विकसितभारतस्य निर्माणे स्वकीयं योगदानं प्रददाति।
मुख्यमन्त्री डॉ. यादव रविवासरे सागरजनपदस्य केसलीक्षेत्रे आयोजितं लाडलीबहना-सम्मेलनम् सम्बोधयन् आसीत्। तेन कार्यक्रमे लाडलीबहना-योजनायाः सप्तत्रिंशत्तमा किस्तिः अपि विमोचिता। अस्मिन् अवसरे प्रदेशस्य एककोटिपञ्चविंशतिलक्षमहिलानां बैंक-खातेषु अष्टादशशतपञ्चत्रिंशत् कोटिरूप्यकाणि स्थानान्तरितानि। अस्मिन् अवसरे प्रायः एकशतनवतिदशमलवपञ्चाशीतिः कोटिरूप्यकाणां व्ययेन त्रिपञ्चाशत् विकासकार्याणां लोकार्पणं भूमिपूजनं च कृत्वा शिलापट्टिकायाः अनावरणं कृतम्। एतेषु प्रायः अष्टषष्टिदशमलवत्र्यशीतिः कोटिरूप्यकाणां व्ययेन निर्मितानां पञ्चविंशति-निर्माणकार्याणां लोकार्पणम् तथा द्वाविंशत्यधिकशतदशमलवद्वि-कोटिरूप्यकाणां व्ययेन अष्टाविंशति-कार्याणां भूमिपूजनं समाविष्टम्।
मुख्यमन्त्री उक्तवान् यत् मातृशक्तेः सशक्तीकरणं तस्याः नेतृत्वं च वर्तमानकालस्य आवश्यकता अस्ति, तथा शासनं एतत् लक्ष्यं सम्पूर्णं कर्तुं निरन्तरं कार्यं करोति। लाडलीबहना-योजना तृतीयवर्षे प्रवेशं करोति, यस्याः माध्यमेन प्रतिमासं भगिनीभ्यः तासां बैंक-खातेषु धनराशिः प्रदीयते। लाडलीबहना-योजना अस्माकं मातॄणां भगिनीनां च आर्थिकस्वावलम्बनस्य आधारः अभवत्।
तेन उक्तं यत् अस्मात् अधिका सुखदा वार्ता का भवितुमर्हति यत् लाडलीबहना-योजनायाः प्राप्तया धनराश्या भगिन्यः स्वपरिवारस्य संचालनं प्रति सहयोगं कुर्वन्ति। एतत् तासां समर्पणम्, तासां स्वकीयः त्यागः च अस्ति। लाडलीबहना-योजना सहिताभिः अन्याभिः योजनाभिः महिलानां सामाजिकस्तरे महत् सुधारः अभवत्। तेन उक्तं यत् भगिनीनां मातृशक्तेः च आशीर्वादेन राज्यशासनं निरन्तरं विकासकार्याणि अग्रे नयति। अद्य तासां मनसि शिक्षा, सुरक्षा, सम्मानस्य च विश्वासः वर्धते।
मुख्यमन्त्री डॉ. यादव उक्तवान् यत् अस्मिन् वर्षे मध्यप्रदेश-शासनं कृषककल्याणवर्षं मन्यते। अस्मिन् कृषकाणां हिताय अनेके महत्त्वपूर्णाः कार्याः भवन्ति। तेषां क्षेत्राणां कृते जलस्य व्यवस्था क्रियते। प्रदेशे सिंचनक्षेत्रफलम् चतुश्चत्वारिंशल्लक्षहेक्टेयरतः वर्धमानं पञ्चषष्टिलक्षहेक्टेयरपर्यन्तं प्राप्तम्। शासनस्य लक्ष्यं तत् शतलक्षहेक्टेयरपर्यन्तं नेतुम् अस्ति। यदा कृषकस्य क्षेत्रे जलम् आगच्छति तदा तेन सह तस्य जीवने अपि परिवर्तनम् आगच्छति। दुग्धोत्पादनस्य प्रोत्साहनार्थम् अपि शासनं कार्यं करोति। यत्र शासनं गोमातॄणां कृते प्रतिदिनव्ययं वर्धितवती, तत्र दुग्धोत्पादनस्य खाद्यप्रसंस्करणस्य च कृते योजनाः सञ्चालयति तथा विविधयोजनाभिः अनुदानम् अपि ददाति।
तेन प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य द्वादशवर्षपर्यन्तं निरन्तरं प्रधानमन्त्रीपदे स्थितेः उल्लेखं कृत्वा उक्तं यत् प्रधानमन्त्रीणः लोककल्याणकारीयोजनाभिः अद्य आवश्यकतावान् जनः आवासं स्वास्थ्यसेवां सहिताः सर्वाः सुविधाः प्राप्नोति। धरतीआबा-योजनायाः माध्यमेन जनजातीयसमाजस्य कल्याणार्थम् अनेके कार्याः क्रियन्ते।
मुख्यमन्त्रिणः प्रमुखाः घोषणाः
मुख्यमन्त्री डॉ. यादव केसलीस्थे लाडलीबहना-सम्मेलने बह्वीः महत्त्वपूर्णाः घोषणाः अकुरुत। तेन केसलीक्षेत्रे सांदीपनि-विद्यालयस्य द्वितीयचरणस्य कार्यं प्रारम्भं कर्तुं, शासकीय-उच्चविद्यालयस्य चिरचिटा सुखजू इत्यत्र उच्चतरमाध्यमिकविद्यालयपर्यन्तम् उन्नयनं कर्तुं, शासकीय-उच्चविद्यालयानां देवरी, नाहरमऊ, नन्ही देवरी च उन्नयनं कर्तुं, कृषि-उपज-मण्डी केसली इत्यस्य नाम रानी अवन्तीबाई इत्यस्याः नाम्ना स्थापयितुं, देवरीक्षेत्रे शतशय्यायुक्तं चिकित्सालयं कर्मचारिभिः सह प्रारम्भं कर्तुं च घोषणा कृता।
तथैव मुख्यमन्त्री केसलीक्षेत्रे थावरी-जलाशयस्य (व्ययः प्रायः पञ्चशत्पञ्चाशत् कोटिरूप्यकाणि) योजनां स्वीकृतवान् तथा उक्तवान् यत् कृषकाणां एषा बहुप्रतीक्षिता अपेक्षा क्षेत्रस्य कृषिक्षेत्रे क्रान्तिम् आनयिष्यति। मुख्यमन्त्री देवरीक्षेत्रे पलाण्डु-लशुनयोः क्रयणार्थं मण्ड्यां क्रयकेन्द्रस्य निर्माणस्य घोषणा अकुरुत। शासकीयमहाविद्यालये देवरी इत्यत्र विज्ञानसंकायस्य तथा कलासंकाये राजनीतिविषयस्य आरम्भं, केसली-महाविद्यालये कला-वाणिज्यसंकाययोः स्नातकोत्तरकक्षाणां प्रारम्भं, देवरीनगरस्य नाम देवपुरी इति परिवर्तनस्य च घोषणा कृता।
मुख्यमन्त्री उक्तवान् यत् स्थानीयजनानां मागानुसारं देवखण्डेराव-मन्दिरस्य पर्यटनस्थलरूपेण विकासः क्रियिष्यते। तेन ग्रामपञ्चायत् गौरझामर तथा ग्रामपञ्चायत् केसली इत्येतयोः नगरपञ्चायतरूपेण निर्माणस्य अपि घोषणा कृता।
जनसामान्येषु दृष्टम् अपारम् उत्साहः, मुख्यमन्त्री लाडलीभगिनीषु पुष्पवर्षाम् अकरोत्
डॉ. यादवस्य सागरजनपदस्य देवरीविधानसभाक्षेत्रान्तर्गत-केसलीखण्डे मुख्यमन्त्रीपदग्रहणानन्तरम् एतत् प्रथमम् आगमनम् आसीत्, यस्य विषये स्थानीयजनानां प्रशासनस्य च मध्ये महान् उत्साहः दृष्टः। मुख्यमन्त्री रैम्पमार्गेण लाडलीभगिनीनां मध्ये गत्वा पुष्पवर्षाम् अकरोत्। मुख्यमन्त्रीं स्वमध्ये प्राप्त्वा कार्यक्रमे उपस्थितासु लाडलीभगिनीषु उत्साहः उल्लासश्च दृष्टः। अस्मिन् अवसरे महिलाभिः “धन्यवाद लाडले भैया” इति लिखिताः फलकाः प्रदर्शिताः, येन मुख्यमन्त्रिणः प्रति स्वीयम् आभारं व्यक्तम्।
मुख्यमन्त्री केसलीक्षेत्रे अत्यन्तम् अद्वितीयम् उत्साहपूर्णं कार्यक्रमम् अपि सहभागी अभवत्। तेन अत्र लाडलीभगिनीभिः सह पारम्परिकं सितोलिया (पिट्टू) क्रीडां क्रीडित्वा “लाडलीबहना-खेलसप्ताहस्य” भव्यशुभारम्भः कृतः। सह एव स्वयं क्रीडाङ्गणे अवतीर्य क्रीडासु सक्रियसहभागिता अपि कृता। मुख्यमन्त्रीं स्वमध्ये प्राप्य तं बालकैः युवकैः च इव पारम्परिकक्रीडां कुर्वन्तं दृष्ट्वा उपस्थितानां महिलानां लाडलीभगिनीनां च उत्साहः द्विगुणितः अभवत्। अस्मिन् काले मुख्यमन्त्री सर्वान् स्वस्थं जागरूकं सक्रियं च जीवनशैलीम् अपनयितुं सन्देशं दत्तवान्।
हितग्राहिभ्यः वितरितानि हितलाभानि, मेधावीविद्यार्थिनां सम्मानः कृतः
मुख्यमन्त्री विभिन्नान् हितग्राहिणः मञ्चतः लाभान्वितवान्। कार्यक्रमे शिक्षा, आजीविकासंवर्धनं प्रतिभाप्रोत्साहनं च सम्बन्धितेभ्यः हितग्राहिभ्यः सामग्रीः प्रोत्साहनराशेः प्रमाणपत्राणि च वितरितानि। तेन विविधशासकीयविभागैः विकासकार्येषु जनकल्याणकारीयोजनासु स्थानीयोत्पादेषु च केन्द्रितायाः प्रदर्शनीयाः अवलोकनं कृतम् तथा विभागानां प्रयासान् प्रशंसितवान्।
कार्यक्रमे खाद्यमन्त्री गोविन्द सिंह राजपूत तथा सांसद राहुल सिंह लोधी अपि सम्बोधितवन्तौ। अस्मिन् अवसरे जनप्रतिनिधयः अधिकारीणः च उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani