Enter your Email Address to subscribe to our newsletters

- केसलीतः लाड़ली बहना योजनायाः 37तमः राशेर्भविष्यति अंतरणम्
भोपालम्, 14 जूनमासः (हि.स.)।
मध्यप्रदेशस्य मुख्यमन्त्री डाक्टरमोहनयादवः अद्य रविवासरे सागरजनपदस्य केसलीविकासखण्डे आयोजिते राज्यस्तरीयकार्यक्रमे लाडलीबहनायोजनायाः सप्तत्रिंशत्तमीं किश्तं लाडलीबहनानां खातेषु अन्तरितं करिष्यति। अस्मिन् कार्यक्रमे एककोटिपञ्चविंशतिलक्षाधिकबहनानां खातेषु अष्टादशशतपञ्चत्रिंशत्कोटिरूप्यकाणां धनराशिः अन्तरिता भविष्यति।
जनसम्पर्काधिकारी जीएसमर्सकोले सूचनां दत्त्वा अवदत् यत् कार्यक्रमे मुख्यमन्त्री डाक्टरमोहनयादवः सागरजनपदस्य देवरीविधानसभाक्षेत्राय प्रायः एकनवतिशतोत्तरशतनवदशदशमांशपञ्चकोटिरूप्यकाणां व्ययेन त्रिपञ्चाशत् विकासकार्याणां सौगातं अपि प्रदास्यति। एतेषु द्वादशोत्तरशतद्विकोटिरूप्यकव्ययेन अष्टाविंशतिः कार्याणां भूमिपूजनं तथा अष्टषष्टिदशमांशत्र्यशीतिकोटिरूप्यकव्ययेन पञ्चविंशतिः कार्याणां लोकार्पणं भविष्यति।
तेन सूचितं यत् मुख्यमन्त्री डाक्टरमोहनयादवः क्षेत्रस्य विकासाय गतिदायकानां मार्गशिक्षास्वास्थ्यविद्युत्जलसम्पद्पञ्चायतग्रामीणविकासतथा प्राविधिकशिक्षाविभागसम्बद्धानां निर्माणकार्याणां लोकार्पणं भूमिपूजनं च करिष्यति। एतैः विकासकार्यैः देवरी तथा केसलीविकासखण्डयोः ग्रामीणक्षेत्रेषु आधारभूतसुविधानां विस्तारः भविष्यति तथा च नागरिकेभ्यः उत्तमसेवाः उपलब्धाः भविष्यन्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani