सर्वकारस्य उद्देश्यं कृषये लाभकारिणी कृषकाणाम् आये निरंतरं वृद्धिः - शिवराज सिंह
केन्द्रीय कृषि मंत्री विदिशा जिल्लायाः ग्राम बेरखेड़ी जैतौ कृतं कृषि विज्ञान केन्द्रस्य भूमिपूजनम् विदिशा, 14 जूनमासः (हि.स.)। केंद्रीयकृषिकिसानकल्याणमन्त्री शिवराज सिंह चौहान उक्तवान् यत् कृषि विज्ञान केन्द्राणि कृषकाणां वैज्ञानिकानां च मध्
विदिशा जिले के ग्राम बेरखेड़ी जैतू में कृषि विज्ञान केन्द्र के भूमिपूजन कार्यक्रम में शामिल अतिथिगण


केन्द्रीय कृषि मंत्री विदिशा जिल्लायाः ग्राम बेरखेड़ी जैतौ कृतं कृषि विज्ञान केन्द्रस्य भूमिपूजनम्

विदिशा, 14 जूनमासः (हि.स.)।

केंद्रीयकृषिकिसानकल्याणमन्त्री शिवराज सिंह चौहान उक्तवान् यत् कृषि विज्ञान केन्द्राणि कृषकाणां वैज्ञानिकानां च मध्ये सेतुरूपेण कार्यं कुर्वन्ति। अत्र कृषकेभ्यः आधुनिककृषिः उन्नतबीजानि नवीनकृषिप्रौद्योगिक्यः सस्यसंरक्षणम् जैविककृषिः तथा कृष्याधारितोद्यमानां विषये सूचना उपलब्धा करिष्यते। तेन उक्तं यत् शासनस्य उद्देश्यं कृषिं लाभकारीकर्तुं कृषकाणां आयायाः निरन्तरवृद्धिं च सुनिश्चितं कर्तुम् अस्ति।

केंद्रीयकृषिमन्त्री चौहान रविवासरे मध्यप्रदेशस्य विदिशाजिले बेरखेड़ी जैतू ग्रामे कृषि विज्ञान केन्द्रस्य भूमिपूजनकार्यक्रमम् सम्बोधयति स्म। तेन विधिपूर्वकं पूजनार्चनं कृत्वा अस्य केन्द्रस्य निर्माणकार्यस्य शुभारम्भः कृतः। अस्मिन् अवसरे प्रदेशस्य कृषिमन्त्री ऐदल सिंह कंषाना राजस्वमन्त्री करण सिंह वर्मा अन्ये जनप्रतिनिधयः अधिकारिणः बहुसंख्यकाः कृषकाः अन्ये च उपस्थिताः आसन्।

केंद्रीयमन्त्री उक्तवान् यत् कृषि विज्ञान केन्द्रस्य स्थापनया विदिशाजिलस्य कृषकेभ्यः वैज्ञानिकमार्गदर्शनं स्थानीयस्तरे प्राप्तं भविष्यति। अनेन नवीनप्रौद्योगिकीनां शीघ्रप्रसारः भविष्यति तथा कृषकाः आधुनिककृषिपद्धतीः स्वीकृत्य उत्पादनं उत्पादकतां च वर्धयितुं शक्नुवन्ति। तेन कृषकाः कृषिक्षेत्रे नवाचारान् स्वीकर्तुं वैज्ञानिकपरामर्शानुसारं कार्यं कर्तुं च आहूताः।

विदिशायां कृषकाणां पाठशाला

केंद्रीयकृषिमन्त्री उक्तवान् यत् अयं कार्यक्रमः जनसमूहम् एकत्र कर्तुं भाषणप्रदानाय वा न अस्ति अपितु कृषकाणां प्रशिक्षणाय अस्ति। अत्र आगताः कृषकाः न कस्यचित् यानेन आनिताः सन्ति अपितु यः शिक्षितुम् इच्छति सः स्वसाधनैः आगतः अस्ति। अतः मंचीयौपचारिकतानां स्थाने प्रत्यक्षशिक्षणं भविष्यति। अत्र उपविष्टः प्रत्येकः कृषकः विद्यार्थी इव मन्यताम् यस्य कृते वैज्ञानिकाः स्ववचनं संक्षेपेण प्रस्तोष्यन्ति अनन्तरं प्रत्यक्षं क्षेत्रं नीत्वा यन्त्राणां नवीनप्रौद्योगिकीनां च प्रदर्शनं करिष्यन्ति।

तेन उक्तं यत् अत्र निर्मीयमाणं एतत् कृषि विज्ञान केन्द्रं एकोनपञ्चाशदधिकएकरभूमौ देशस्य आदर्शकेन्द्रं भविष्यति यत्र अस्मिन् एव खरीफऋतौ प्रदर्शनक्षेत्रेषु आधुनिकविधिना कृषिकार्यं प्रारभ्यते। तेन स्पष्टं कृतं यत् भवननिर्माणस्य प्रतीक्षां विना क्षेत्रे कार्यं त्वरितं आरभ्यते। कृषकाय केवलं श्रावयित्वा न अपि तु नेत्राभ्यां दर्शयित्वा शिक्षणं प्रदास्यते। अस्मात् केन्द्रात् केंद्रीयकृषिसंस्थानानां अनुसंधानं प्रत्यक्षरूपेण विदिशाअञ्चलस्य कृषकेभ्यः दूरभाषप्रदर्शनप्रशिक्षणमाध्यमेन प्राप्स्यते।

खेत बचाओ अभियानम् अल्पखादम् सम्यक् खादम् सम्यक् परामर्शः

शिवराज सिंह चौहानेन राष्ट्रव्यापिनः खेत बचाओ अभियानस्य विस्तारः कृत्वा विदिशायां कृषकेभ्यः धरित्रीमातुः संरक्षणार्थं भावपूर्णम् आह्वानं कृतम्। तेन उक्तं यत् मृत्तिकायाः परीक्षणं विना अतिप्रमाणेन रासायनिकखादानां कीटनाशकानां च प्रयोगात् भूमेः उर्वराशक्तिः नष्टा भविष्यति। अतः प्रत्येकस्य कृषकस्य क्षेत्रस्य मृत्तिकापरीक्षणं मृत्तिकास्वास्थ्यपत्रकार्यक्रमः च तीव्रतया सञ्चाल्यते। कृषौ सन्तुलितखादप्रयोगेन सह प्राकृतिकजैविककृष्योः अपि संवर्धनं क्रियते यत्र कृषकाः न्यूनातिन्यूनम् अर्धएकरभूमौ वैज्ञानिकविधिना प्राकृतिककृषेः प्रयत्नं कुर्वन्तु येन उत्पादनं न न्यूनं भवेत् भूमेः स्वास्थ्यं च सुधरेत्।

एग्री क्लीनिक दूरभाषसहायतारेखा चलदूरभाषप्रयोगश्च क्षेत्रे क्षेत्रे परामर्शः

केंद्रीयमन्त्री चौहानेन घोषणा कृता यत् विदिशास्थिते अस्मिन् आदर्शकेन्द्रे एग्री क्लीनिक अर्थात् सस्यचिकित्सालयः निर्मीयते। यत्र कृषकाः पादपस्य पत्रस्य अथवा मृत्तिकायाः नमूनं नीत्वा आगमिष्यन्ति तथा वैज्ञानिकाः रोगं ज्ञात्वा त्वरितम् उपचारं वक्ष्यन्ति। सहैव भारत विस्तार किसान सारथी १५५२६१ सङ्ख्या तथा डिजिटलमञ्चानां माध्यमेन कृषकेभ्यः दूरभाषेण अपि शीघ्रं परामर्शः प्रदास्यते। पत्राणां पीतवर्णीकरणात् आरभ्य कीटाक्रमणपर्यन्तं सर्वासु समस्यासु सहायता प्रदास्यते।

तेन अपि उक्तं यत् एकस्य चलदूरभाषप्रयोगस्य माध्यमेन क्षेत्रे विचरन्तः एव ज्ञातुं शक्यते यत् मृत्तिकायां के के पोषकतत्त्वानि सन्ति तथा कियत् डीएपी यूरिया च आवश्यकम् अस्ति। अस्य प्रत्यक्षप्रदर्शनं सः स्वयं क्षेत्रे गत्वा करिष्यति।

नकलीखादबीजानां विषये कठोरकार्यम् उत्तमबीजस्य उत्तमनर्सरी च आश्वासनम्

तेन कृषकाणां प्रमुखचिन्ताविषयः कूटखादस्य कीटनाशकस्य बीजस्य च विषये स्पष्टतया उक्तं यत् यः कश्चित् कृषकैः सह छलं करिष्यति सः कस्यापि परिस्थितौ न मोच्यते। तेन कृषकाः निश्चितक्रयपत्रं ग्रहीतुं क्यूआर संकेतस्य माध्यमेन प्रामाणिकतां परीक्षितुं कूटसामग्रीविषये त्वरितं सूचना दातुं च आहूताः। सहैव शासनं कठोरकार्यवाहीं करिष्यति इति आश्वासनं दत्तम्।

यन्त्रभाण्डारम् आधुनिकयन्त्राणि च प्रत्येकक्षेत्रं प्रति प्रौद्योगिकी

शिवराज सिंह चौहानेन लघुसीमान्तकृषकाणां कृते कस्टम हायरिंग केन्द्राणां यन्त्रभाण्डारस्य च घोषणा कृता यत्र लेजर समतलीकरणयन्त्रं प्रत्यक्षबीजारोपणधानयन्त्रं बिन्दुसिञ्चनफव्वारासिञ्चनयन्त्रादीनि आधुनिकयन्त्राणि भाटकदरेण उपलब्धानि भविष्यन्ति। तेन उक्तं यत् प्रत्येकेन कृषकेन सर्वाणि यन्त्राणि क्रेतुं न शक्यन्ते अतः कृषि विज्ञान केन्द्रे यन्त्राणि स्थाप्यन्ते। कृषकाः आवश्यकतानुसारं अल्पमूल्यं दत्त्वा तेषां उपयोगं कृत्वा पुनः समर्पयिष्यन्ति।

मूल्यवर्धनम् प्रसंस्करणम् स्टार्टअप कौशलविकासश्च

केंद्रीयमन्त्री टमाटरशाकफलानां मूल्यानां परिवर्तनस्य समस्यां चर्चित्वा उक्तवान् यत् केवलं कच्चद्रव्यविक्रयेन कृषकः हानिम् अनुभवति। अतः अत्र मूल्यवर्धनस्य खाद्यप्रसंस्करणस्य च प्रशिक्षणं प्रदास्यते। कृषि विज्ञान केन्द्रस्य माध्यमेन टमाटरशाकफलधान्यादिभ्यः प्रसंस्कृतवस्तूनां निर्माणप्रौद्योगिकी संकुलनम् विपण्याः संयोजनं च दर्शयित्वा युवानः कृष्याधारितस्टार्टअपप्रति प्रोत्साहिताः भविष्यन्ति।

तेन दलहनतैलहनयोः उत्पादनवृद्धये दलहन आत्मनिर्भरता मिशनस्य तीव्रीकरणस्य संकल्पः पुनरुक्तः। तेन उक्तं यत् चणकः अरहरः मसूरः उड़द इत्यादीनां दलानां सह तिलादितैलहनकृषेः वृद्ध्यर्थं कृषकेभ्यः उत्तमबीजानि निःशुल्कप्रदर्शनक्षेत्रेषु प्रदास्यन्ते तथा समूहाधारितकृषेः प्रोत्साहनं भविष्यति। तेन विश्वासः प्रदत्तः यत् कृषकः यावत् दलहनं उत्पादयिष्यति तत् न्यूनतमसमर्थनमूल्ये क्रेतुं शक्यते तथा यत्र उत्पादनम् अधिकं भविष्यति तत्र दालचक्कीस्थापनार्थं पञ्चविंशतिलक्षरूप्यकपर्यन्तं अनुदानं प्रदास्यते।

प्रदेशस्य कृषिमन्त्री ऐदल सिंह कंषाना उक्तवान् यत् मुख्यमन्त्री डॉ मोहन यादवस्य नेतृत्वे राज्यशासनं कृषकाणां आयां द्विगुणीकर्तुं लक्ष्यं स्वीकृत्य निरन्तरं कार्यं करोति। कृषकाणाम् आर्थिकस्थितेः सुदृढीकरणाय कृषिं अधिकलाभकारीकर्तुं च केन्द्रराज्यशासनयोः विविधयोजनाभिः कार्यक्रमैः च सर्वथा प्रयत्नः क्रियते। अस्यां दिशि केंद्रीयमन्त्री शिवराज सिंह चौहान अपि पूर्णप्रतिबद्धतया कृषकहिताय कार्यं करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani