चतुर्दिवसीयायां चीन यात्रायां बीजिंगं प्राप्नोत् नेपालस्य विदेश मंत्री शिशिर खनालः
काठमांडूः, 14 जूनमासः (हि.स.)। नेपालस्य विदेशमन्त्री शिशिर खनालः स्वस्य चीनीय समकक्षस्य वाङ्ग यी इत्यस्य निमन्त्रणेन चतुर्दिवसीय आधिकारिक यात्रायाः निमित्तं चीनदेशं प्राप्तवान्। सः अद्य प्रातःकाले एव चीनदेशस्य कृते प्रस्थितवान् आसीत्। बीजिंग स्थ
बीजिंग पहुंचे नेपाल के विदेश मंत्री शिशिर खनाल


काठमांडूः, 14 जूनमासः (हि.स.)।

नेपालस्य विदेशमन्त्री शिशिर खनालः स्वस्य चीनीय समकक्षस्य वाङ्ग यी इत्यस्य निमन्त्रणेन चतुर्दिवसीय आधिकारिक यात्रायाः निमित्तं चीनदेशं प्राप्तवान्। सः अद्य प्रातःकाले एव चीनदेशस्य कृते प्रस्थितवान् आसीत्।

बीजिंग स्थितस्य नेपाली दूतावासस्य अनुसारं मन्त्री खनाल स्थानीयसमयानुसारम् अद्य मध्याह्ने चीनदेशस्य राजधानी बीजिंग नगरे प्राप्तवान्। विमानस्थानके तस्य स्वागतं चीनदेशे नेपालस्य कार्यवाहक राजदूतेन रोशन खनाल तथा चीनस्य विदेशमन्त्रालयस्य अधिकारिभिः कृतम्। विदेशमन्त्रिणः सम्मानार्थम् अद्य सायंकाले बीजिंग स्थितेन नेपाली दूतावासेन स्वागतसमारोहस्य आयोजनं कृतम् अस्ति। दूतावासेन सूचितं यत् अस्मिन् कार्यक्रमे मन्त्री खनाल नेपाली समुदायस्य सदस्यैः सह संवादं करिष्यति।

अस्य यात्रायाः समये मन्त्री खनाल तथा चीनस्य विदेशमन्त्री वाङ्ग यी इत्येतयोः मध्ये द्विपक्षीय वार्ता प्रस्ताविता अस्ति। वार्तायां नेपाल चीन सम्बन्धान् अधिकं सुदृढीकर्तुं तथा पारस्परिक सहयोगस्य विस्ताराय विविध विषयेषु चर्चा भविष्यति। अतिरिक्तरूपेण विदेशमन्त्रिणः चीनस्य वरिष्ठाधिकारिभिः सह पृथक् पृथक् उपवेशनानि अपि निर्धारितानि सन्ति।

यात्राकाले विदेशमन्त्री बीजिंग स्थितस्य नेपाली दूतावासस्य निवेशसम्मेलने अपि सहभागिता करिष्यति यस्य उद्देश्यं नेपालदेशे विदेशी निवेशस्य आकर्षणम् अस्ति। सः चीनीय उद्यमिभिः सह अपि मिलनं संवादं च करिष्यति। विदेशमन्त्री खनाल १६ जुलाई दिवसे स्वदेशं प्रत्यागमिष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani