ओडिशायां 'पहिली रज' इत्यनेन सह रज पर्वणश्शुभारंभः, उत्साहोल्लासयोर्वातावरणम्
भुवनेश्वरम्, 14 जूनमासः (हि.स.)। ओडिशाराज्ये रविवासरे पारम्परिकस्य पहिलीरज उत्सवस्य सह बहुप्रतीक्षितस्य रजपर्वणः शुभारम्भः अभवत्। ओडियामासस्य आषाढस्य आगमनस्य वर्षाकालस्य आरम्भस्य च प्रतीकः अयं पर्वः मातृभूमेः प्रति सम्मानस्य राज्यस्य समृद्धकृषिपर
पहिली रज पर्व


भुवनेश्वरम्, 14 जूनमासः (हि.स.)।

ओडिशाराज्ये रविवासरे पारम्परिकस्य पहिलीरज उत्सवस्य सह बहुप्रतीक्षितस्य रजपर्वणः शुभारम्भः अभवत्। ओडियामासस्य आषाढस्य आगमनस्य वर्षाकालस्य आरम्भस्य च प्रतीकः अयं पर्वः मातृभूमेः प्रति सम्मानस्य राज्यस्य समृद्धकृषिपरम्परायाः च समर्पितः अस्ति।

राज्यस्य ग्रामीणनगरीयक्षेत्रेषु उत्साहोल्लासयोः वातावरणं दृष्टम्। सर्वेषां वयःसमूहानां जनाः अस्मिन् सांस्कृतिकोत्सवे उत्साहेन सहभागं कृतवन्तः तथा च युवतीषु बालकेषु च विशेषः उत्साहः दृष्टः।

पारम्परिकरीतिरिवाजानुसारं युवत्यः प्रातःकाले शीघ्रं स्नानं कृत्वा नवीनवस्त्राणि धारयन्ति। पर्वणः अवसरे ताः स्वपादयोः आलक्तकं हस्तयोः मेहन्दीं च धारयित्वा पारम्परिकशृङ्गारं कुर्वन्ति।

ग्रामीणक्षेत्रेषु वृक्षेषु स्थापितेषु पारम्परिकेषु रजदोलासु युवत्यः दोलायमानाः सन्त्यः लोकगीतानि गायन्ति। अपरतः बालकाः युवानः च ताशक्रीडायां लूडोक्रीडायां पारम्परिकबगुडीक्रीडायां च विविधासु मनोरञ्जनात्मकक्रियासु सहभागं कुर्वन्ति।

रजपर्वणः विशेषाकर्षणं तस्य समृद्धा खाद्यपरम्परा अस्ति। अस्मिन् अवसरे गृहेषु प्रसिद्धं पोडापीठा सह चकुलीपीठा मण्डापीठा अरिसापीठा इत्यादयः पारम्परिकव्यञ्जनानि सज्जीकृतानि भवन्ति। एतदतिरिक्तं मधुरमसालैः अलंकृतः विशेषः रजपानः अपि जनानां मध्ये लोकप्रियः अस्ति।

रजपर्व ओडिशायाः सांस्कृतिकसंपदः प्रकृतिं प्रति श्रद्धायाः कृषिप्रधानजीवनशैल्याः च प्रतीकः मन्यते। अयम् उत्सवः राज्यस्य लोकपरम्पराः जीवन्ताः स्थापयन् समाजे सामुदायिकसौहार्दं सांस्कृतिकैक्यं च सुदृढं करोति।

---------------

Hindusthan Samachar / Dheeraj Maithani