स्वास्थ्य-क्षेत्रे द्वादशवर्षेषु ऐतिहासिकं परिवर्तनं, आयुष्मान-भारत-योजना-जनौषधि-योजनाभ्यां कोटिशः जनाः लाभान्विताः - प्रधानमन्त्री
नवदेहली, १४ जूनमासः (हि.स.)। केन्द्रीय-सर्वकारस्य द्वादशवर्ष-पूर्णतायाः अवसरे स्वास्थ्य-क्षेत्रे जातानां परिवर्तनानां उपलब्धीनां च उल्लेखं कुर्वन् प्रधानमन्त्री नरेन्द्र-मोदी-महोदयः उक्तवान् यत् गत-दशकाधिक-कालात् भारतेन गुणवत्तायुक्ताः स्वास्थ्य-से
पंतप्रधान नरेंद्र मोदी


नवदेहली, १४ जूनमासः (हि.स.)। केन्द्रीय-सर्वकारस्य द्वादशवर्ष-पूर्णतायाः अवसरे स्वास्थ्य-क्षेत्रे जातानां परिवर्तनानां उपलब्धीनां च उल्लेखं कुर्वन् प्रधानमन्त्री नरेन्द्र-मोदी-महोदयः उक्तवान् यत् गत-दशकाधिक-कालात् भारतेन गुणवत्तायुक्ताः स्वास्थ्य-सेवाः सामान्य-जनानां समीपं प्रापयितुं चिकित्सा-सेवां च अधिक-सुलभां कर्तुं दिशि उल्लेखनीया प्रगतिः कृता अस्ति। तेन उक्तं यत् आयुष्मान-भारत-योजना तथा प्रधानमन्त्री-भारतीय-जनौषधि-परियोजना इत्यादिभिः योजनाभिः कोटिशः जनानां जीवने सकारात्मक-परिवर्तनं समानीतम्।

प्रधानमन्त्री मोदी-महोदयः रविवासरे सामाजिक-माध्यम-मञ्चे ‘एक्स’ इत्यत्र प्रसारिते सन्देशे उक्तवान् यत् आयुष्मान-भारत-योजना अद्य विश्वस्य वृहत्तमा स्वास्थ्य-सुरक्षा-योजना जाता अस्ति। एषा योजना समाजस्य आर्थिकदृष्ट्या दुर्बल-वञ्चित-वर्गेभ्यः गुणवत्तायुक्ताः स्वास्थ्य-सेवाः प्रदातुं महत्त्वपूर्णां भूमिकां निर्वहति। तेन उक्तं यत् अस्याः योजनायाः माध्यमेन लक्षशः कुटुम्बानां गम्भीर-रोगाणां चिकित्सायां आर्थिक-न्यूनता प्राप्ता अस्ति।

प्रधानमन्त्री उक्तवान् यत् प्रधानमन्त्री-भारतीय-जनौषधि-परियोजनायाः अन्तर्गतं देशव्यापि न्यून-मूल्येषु गुणवत्तायुक्ताः औषधयः उपलब्धाः क्रियन्ते। अनेन सामान्य-नागरिकाणां, विशेषतः निर्धन-मध्यमवर्गीय-जनानां च चिकित्सा-व्यये उल्लेखनीया न्यूनता जाता अस्ति। तेन अवगतं कारितं यत् सर्वकारेण हृदयरोगिणां कृते प्रयुज्यमानानां स्टेण्ट्-उपकरणानाम् तथा जानु-प्रत्यारोपण-उपकरणानाम् मूल्यानि अपि नियन्त्रितानि, येन चिकित्सा अधिक-सुलभा जाता तथा असंख्य-रोगिणः लाभान्विताः अभवन्।

तेन चिकित्सा-शिक्षा-क्षेत्रे सम्पन्नस्य विस्तारस्य अपि उल्लेखः कृतः। प्रधानमन्त्री उक्तवान् यत् देशे नूतन-चिकित्सा-महाविद्यालयानां स्वास्थ्य-संस्थानानां च स्थापना कृता, तथा चिकित्सा-शिक्षा-आसनानां सङ्ख्या निरन्तरं वर्धिता। अनेन चिकित्सा-शिक्षां प्राप्तुम् इच्छुकानां यूनां कृते नूतनान् अवसरान् सृजितवान्, भविष्ये च स्वास्थ्य-क्षेत्राय अधिकं प्रशिक्षितं मानव-संसाधनम् उपलब्धं भविष्यति।

प्रधानमन्त्री मोदी-महोदयः उक्तवान् यत् सर्वकारस्य लक्ष्यं केवलं चिकित्सा-सुविधानां विस्तारः नास्ति, अपितु समग्रस्य सशक्तस्य च स्वास्थ्य-तन्त्रस्य विकासः अस्ति, येन प्रत्येकं नागरिकः समये उत्तमाः चिकित्सा-सुविधाः प्राप्नुयात्। तेन विश्वासः व्यक्तीकृतः यत् ‘स्वस्थ-भारतस्य’ निर्माणदिशि अद्यावधि कृताः प्रयासाः अग्रिमेषु वर्षेषु अधिक-प्रभावशालिनः परिणामान् दास्यन्ति।

तेन उक्तं यत् केन्द्रीय-सर्वकारः स्वास्थ्य-क्षेत्रे सुधारार्थं, आधारभूत-संरचनानां विस्तारार्थं, आधुनिक-चिकित्सा-सुविधानां उपलब्धतां सुनिश्चितीकर्तुं च निरन्तरं प्रयत्नशीलः भविष्यति, येन देशस्य प्रत्येकं नागरिकः उत्तम-स्वास्थ्य-सेवानां लाभं प्राप्नुयात्।

Hindusthan Samachar / Divya Ranjan