राष्ट्रपतिः द्रौपदी-मुर्मू रज-पर्वणि शुभकामनाः प्रदत्तवती, सुख-शान्ति-समृद्धीनां कामनाम् अकरोत्
नवदेहली, १४ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मू-महोदया गणपर्व ‘रज’ इत्यस्य शुभावसरे देशवासिभ्यः, विशेषतः ओडिशा-राज्यस्य जनेभ्यः हार्दिक-शुभकामनाः प्रदत्तवती। तया उक्तं यत् वर्षा-ऋतोः स्वागतार्थम् अयं पारम्परिकः उत्सवः धरित्र्याः, मातृत्वस्य
राष्ट्रपति द्रौपदी मुर्मु


नवदेहली, १४ जूनमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मू-महोदया गणपर्व ‘रज’ इत्यस्य शुभावसरे देशवासिभ्यः, विशेषतः ओडिशा-राज्यस्य जनेभ्यः हार्दिक-शुभकामनाः प्रदत्तवती। तया उक्तं यत् वर्षा-ऋतोः स्वागतार्थम् अयं पारम्परिकः उत्सवः धरित्र्याः, मातृत्वस्य, प्रकृतेश्च प्रति सम्मान-प्रदर्शनस्य प्रतीकः अस्ति।

स्वसन्देशे राष्ट्रपतिः उक्तवती यत् रज-पर्व पिठा-ताम्बूल-दोलन-इत्यादिभिः पारम्परिक-आयोजनैः जनान् प्रकृत्या सह सामञ्जस्यपूर्णं जीवनं यापयितुं सन्देशं ददाति। तया उक्तं यत् अस्य पर्वणः विशेषताः समाजस्य एकीकरणं कुर्वन्ति तथा राष्ट्र-निर्माणे देशस्य विकासे च सक्रिय-योगदानाय प्रेरणामपि प्रददति।

राष्ट्रपतिः मुर्मू-महोदया आशां व्यक्तवती यत् रज-पर्वणः सांस्कृतिक-सामाजिक-मूल्यानि सर्वान् नागरिकान् देशस्य प्रगत्यर्थं समर्पित-भावेन कार्यं कर्तुं प्रेरयिष्यन्ति।

तया रज-पर्वणः शुभावसरे ओडिशा-राज्येन सह सम्पूर्ण-देशस्य जनानां सुख-शान्ति-समृद्धीनां कामना कृता।

Hindusthan Samachar / Divya Ranjan