धर्मार्थसमितिपरिषदःउपवेशने मंदिराणां विकासस्य तीर्थयात्रायाश्च कृता समीक्षा
जम्मूः, 14 जूनमासः (हि.स.)।जम्मू कश्मीर धर्मार्थसमितिपरिषदः महत्त्वपूर्णा उपवेशनम् समितेःअध्यक्षसमितेः तथा जम्मू कश्मीरस्य पूर्व सदर ए रियासत डॉ. कर्ण सिंहस्य अध्यक्षतायाम् आयोजितम्। उपवेशने समित्या जम्मू कश्मीरस्य विभिन्नेषु देवालयेषु प्रचलमानानां
धर्मार्थ ट्रस्ट परिषद की बैठक में मंदिरों के विकास और तीर्थयात्रा तैयारियों की समीक्षा


जम्मूः, 14 जूनमासः (हि.स.)।जम्मू कश्मीर धर्मार्थसमितिपरिषदः महत्त्वपूर्णा उपवेशनम् समितेःअध्यक्षसमितेः तथा जम्मू कश्मीरस्य पूर्व सदर ए रियासत डॉ. कर्ण सिंहस्य अध्यक्षतायाम् आयोजितम्। उपवेशने समित्या जम्मू कश्मीरस्य विभिन्नेषु देवालयेषु प्रचलमानानां विकास जीर्णोद्धार संरक्षण तथा अनुरक्षणकार्याणां विस्तृता समीक्षा कृता। उपवेशने समितेर्विक्रमादित्य सिंह अजातशत्रु सिंह रणविजय सिंह परिषद सदस्य एस. एम. साहनी तथा विशाल अबरोल धर्मार्थसमितेः अध्यक्ष डॉ. पी. एस. पठानिया सचिव अशोक शर्मा सहित अन्ये पदाधिकारी उपस्थिताः आसन्।

उपवेशनस्य समये ट्रस्टेन प्रबन्धितेषु देवालयेषु श्रद्धालुभ्यः सुविधानां अधिकं सुदृढीकरणं तथा एतेषां ऐतिहासिक धार्मिक स्थलानां सह सम्बद्धायाः आध्यात्मिक सांस्कृतिक च संततेः संरक्षणविषये विस्तृतः विचार विमर्शः अभवत्। परिषदया देवालय परिसराणां मध्ये प्रचलमानानां विविधविकासकार्याणां प्रगतिः अपि मूल्याङ्किता। अस्मिन् अवसरे धर्मार्थ ट्रस्टस्य अध्यक्ष डॉ. पी. एस. पठानिया जम्मू कश्मीरस्य विभिन्नेषु देवालयेषु ट्रस्टेन क्रियमाणानां प्रमुख जीर्णोद्धार संरक्षण तथा आधारभूत संरचनाविकासकार्याणां विस्तृतां संसूचनां परिषदः समक्षम् प्रस्तुतवान्।

परिषद सदस्यैः आगामी तीर्थयात्रा तथा उत्सवकालस्य सज्जतायाः अपि समीक्षा कृता। उपवेशने श्रद्धालूनां सुविधार्थं आधारभूत संरचना स्वच्छता सुरक्षा व्यवस्था तथा अन्यासां आवश्यकसेवानां सुदृढीकरणे विशेषः बलः दत्तः यथा दर्शनार्थिनः कस्यापि प्रकारस्य असुविधायाः सामना न कुर्युः।

स्वसम्बोधने डॉ. कर्ण सिंह देवालयानां पवित्रता ऐतिहासिक संतति च अक्षुण्णा स्थापयितुं आवश्यकतायाः विषये बलं दत्त्वा उक्तवान् यत् वर्धमानसंख्यया आगच्छतां श्रद्धालूनां आवश्यकताः दृष्ट्वा आधुनिकसुविधानां विकासः अपि आवश्यकः अस्ति। तेन उक्तं यत् धर्मार्थसमितिक्षेत्रस्य शताब्दिपुरातनानां धार्मिकपरम्पराणां संरक्षणाय तथा युवा संततौ आध्यात्मिक मूल्यानां प्रसारणाय पूर्णतया प्रतिबद्धः अस्ति।

Hindusthan Samachar / Dheeraj Maithani