मंडलीयमंत्री जयवीर सिंहः फर्रुखाबादे दिवंगताय डॉ. रजनी सरीनाय अददात् श्रंद्धाजलिम्
फर्रुखाबादम्, 14 जूनमासः (हि.स.)।साहित्य कला संस्कृतेः संरक्षिका, समाजसेविका तथा भारतीय जनता पार्टीदलस्य दिवङ्गता वरिष्ठ नेत्री डॉ रजनी सरीन प्रति उत्तरप्रदेश सरकारस्य प्रभारी मन्त्री तथा पर्यटन मन्त्री जयवीर सिंह रविवासरे फर्रुखाबाद जनपदस्य लोहाई
डॉक्टर सरीन के मकान पर मौजूद मंत्री


फर्रुखाबादम्, 14 जूनमासः (हि.स.)।साहित्य कला संस्कृतेः संरक्षिका, समाजसेविका तथा भारतीय जनता पार्टीदलस्य दिवङ्गता वरिष्ठ नेत्री डॉ रजनी सरीन प्रति उत्तरप्रदेश सरकारस्य प्रभारी मन्त्री तथा पर्यटन मन्त्री जयवीर सिंह रविवासरे फर्रुखाबाद जनपदस्य लोहाई रोड स्थिते तस्याः निवासस्थाने गत्वा श्रद्धासुमनानि अर्पितवान्।

अस्मिन् अवसरे भारतीय जनता पार्टीस्य जिलाध्यक्षः चंद्र वर्मा, ठाकुर वीरेंद्र सिंह राठौड़, शिवांग रस्तोगी, जितेंद्र सिंह राजावत तथा युवा नेता विश्वास गुप्त सहिताः अनेके कार्यकर्तारः स्वर्गीया डॉ रजनी सरीन प्रति श्रद्धाञ्जलिम् अर्पितवन्तः। मन्त्री जयवीर सिंह स्वर्गीयायाः डॉ रजनी सरीनस्य पुत्रीभ्यां डॉ कोमल तथा डॉ पायल सह तस्याः नप्त्रेण च मिलित्वा परिवारस्य कुशलक्षेमं ज्ञातवान् तथा सान्त्वनां प्रदत्तवान्।

युवा भारतीय जनता पार्टी नेता विश्वास गुप्त प्रभारी मन्त्रिणे लोहाई रोडस्य नाम परिवर्त्य डॉ रजनी सरीन मार्ग इति नामकरणस्य प्रस्तावं समर्पितवान्। मन्त्री जयवीर सिंह आश्वासनं दत्तवान् यत् प्रस्तावस्य विषये आवश्यक कार्यवाही कारयिष्यते। अस्मिन् समये डॉ रजनी सरीनस्य समाजसेवा साहित्य संस्कृतेः क्षेत्रे योगदानं सर्वैः स्मृतम्।

अस्य अवसरस्य समये उदय पाल, राहुल कश्यप, अनिल, सुजीत, छोटू इत्यादयः जनाः उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani